पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अद्वैतश्रुतेर्बाधोद्धारः 239 तस्वस्या एव स्वजन्यत्वानुपपत्तेः । ज्ञानान्तरेण च तद्भेदग्रहे क्वचिद्भेदधीधाराविश्रान्तिरवश्यं वाच्या; अन्यथा सुषुप्ति- विषयान्तरसञ्चारादिकं न स्यात् । अतस्तत्रापि चरमभेदधीरेवो- दाहरणम् । तथाच बाधकत्वाभिमता या घटपटभेदधीः स्वभेदा- विषया भासते, तया सह बाध्यत्वाभिमताया ऐक्याधिय ऐक्यं बोधार्यत्वा निर्बाधा सती श्रुतिः सर्वाभेदे पर्यवस्यति । न ह्यभेदेऽपि त्वेत्यर्थः । तेनानुव्यवसाय सिद्धत्वादिपक्षयोर्व्यक्तिभेदस्य पराभ्युपगत त्वेऽपि न क्षतिः । स्वस्याः - स्वकी यायाः प्रतियोगिधीपूर्वकालीनायाः प्रतियोगिधी समान कालीनायाश्च स्वजन्यत्वानुपपत्तेः प्रतियोगिधीजन्य- त्वानुपपत्तेः । उदाहरणमिति । चरमधीयंत्र यद्भेदं गाहते ताभ्यां तद्भेदेन च सह तस्या अभेदमद्वैतश्रुतिर्बोधयतीति, सा घीस्तादृशाभेदं गाहितुं नेष्टे । एवं च पूर्वपूर्वधियामपि स्वविषयेण सह भेदासिद्धया श्रुतिः सर्वाभेदे पर्यवस्यति । प्रकारान्तरेणापि श्रुतेः सर्वाभंदे पर्यवसानमाह तथा चेति । चरमधिया स्वभेदस्य कुत्राप्यग्रहणं चेत्यर्थः । न ह्यभेदे इत्यादि । ययांर्भेदश्चरमधीविषयस्ताभ्यां तद्भेदेन च तस्या अभंदे - बाध्यत्वाभिमतज्ञानेन सह तस्या अभेद च बाध्यवाधकत्वं न हीत्यर्थ: । बाधकस्य स्वविषयेण सह मेदोपमर्द भेद विशेषविषयकरव- रूपबाधक'तावच्छेदकस्योपमर्दबाध्य बाधकधियोर्भेदोपमई बाध्यधीविष- यस्य बाधकषीविषयभेदोपमर्दात् बाधकधिया न स्वविषयबाधनसम्भवः । उक्तं हि पूर्वबाधकस्य स्वबाध्यविषयकत्वमिति भावः । एतेनाभेदे बाध्यबाधकत्वास्वीकारे ब्रह्मज्ञानं स्वस्वरूपबाधकं न स्यादित्यपास्तम् । स्वावषयबा 'धकत्वादेरेव प्रकृतग्रन्थार्धत्वात् । न च द्वैताभाव- 1 4 1 तस्याभे-क. ग. 5 याबा- क. गृ. --- 2 साधक-ग. 3 मर्दः बाध्य -ग. 1 पूर्व बाधक-ग.