पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

240 [प्रथमः बाध्यबाधकभावः; स्वस्यापि स्वबाधकतापत्तेः । तदुक्तं खण्डनकाद्भः- 6 सव्याख्यायामद्वैतसिद्धौ 'सुदूरधावनश्रान्ता बाधबुद्धिपरम्परा | निवृत्तावद्वयाम्नायैः पाणिग्रजीते || इति 1 विषयकत्वांशे यथा 'एकमेवाद्वितीयमिति श्रुतिः स्वमपि बाघते, तथैक्यविषयकत्वांशेऽपि स्वं बाधतामिति - वाच्यम्; स्वप्रतिपाद्याशेषी- भूतविषयाचाघकत्वस्य बाधके स्वीकारात्, द्वितीयाभावस्य स्वप्रति- पाद्या खण्डार्थशेषत्वात् अद्वैतवाक्यस्य द्वितीयाभावविषयकत्वेऽपि तज्जन्याखण्डाद्वैतज्ञानम्य तदभावात् बाघकज्ञानस्य स्वविषयाबाघ- कत्वनियमाक्षतेश्च । अथाद्वैतज्ञानेन द्वैतमपि न बाध्यताम् ; द्वैतस्य स्वविषयैक्येन बोधितत्वात्म्वविषयेनाद्वैतेन स्वस्याभेदबोधननाद्वैतमपि विषयकत्व' रूपस्य बाधकतावच्छेदकस्योपमर्दाच्चेति -- चेन्न; स्वोत्पत्ति- क्षणे ऐक्यबोधनेऽपि भेदानुपनर्दात् । पश्चादेव तदुपमर्दे सिद्धे च न बाध्यं न वा बाधकमस्तीति बाध्यबाघकभावो मयापि नोच्यते । तब त्वद्वैतज्ञानोत्तरं भेदज्ञानस्य तद्बाधकस्य न स्वीकारः सम्भवति । पूर्व जातमपि भेदज्ञानं न चरमधीभेदविषयकामिति चरमधीलब्धपदाs- द्वैत श्रुतिर्भेदज्ञानमात्रमाभासीकरोतीति ध्येयम् || स्वबाधकतापत्तेः स्वविषयबाधकतापत्तेः । सुदूरधावन- श्रान्ता – चरमधीभिन्नज्ञानेषु सुदूरदेशेषु भेदावगाहनरूपं धावनं कृतवत्यपि सुषुप्तिलोपाद्यापत्तिरूपश्रान्त्या चरमधीरूपदेशे भेदावगाहन- रूपधावनं कर्तुमशक्ता, बाधबुद्धे: - भेदज्ञानस्य परम्परा श्रेणी, निवृत्तौ तस्या अद्वयश्रुतिबाधकत्वायोग्यत्वप्राप्तौ, पाणिग्राहैः बाधबुद्धि- परम्पराविरोधिविषयकत्वरूपबाधकतावच्छेदकयुक्तैः, अद्वयाऽऽम्नायैः 1 विषयत्वेऽयि - ख. " नाद्वैतविषयकत्व-ग. १ ,