पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

242 सव्याख्यायामद्वैतसिद्धौ [प्रथमः स्वस्याद्वैतज्ञानादिना भेदं विनानुपपत्तेस्तमप्याक्षिपतीति सर्वत्र - मेदस्याप्रत्यक्षत्वेऽपि नाद्वैतश्रुतेरवकाशः – अत्रोच्यते; आक्षेपो धनुमानमर्थापत्तिर्वा । तत्र विवादाध्यासिता बुद्धिः सर्वतो भिनेति नानुमानं संभवति; स्वतोऽपि भेदसाधने बाधात्, दृष्टान्तस्य च साध्यविकलत्वात् । यतः कुतचिद्भेदसाधने त्वनु - मानाविषये लब्धावकाशा श्रुतिरभेदं बोधयिष्यति । न च स्वव्यतिरिक्तात्सर्वतो भिन्नेति साध्यम्; अद्वैतवादिनं प्रत्य- प्रसिद्धविशेषणत्वात् । एतेन – सर्व सर्वस्माद्भिनमिति वाक्य- यत्तु –– पदार्थस्वरूपस्य भेदत्वेन ज्ञानं प्रति दोषस्य प्रतिबन्ध - कत्वादभेदभ्रमसम्भवादभेदभ्रमोच्छेदप्रसङ्गादिति पूर्वोक्तमयुक्तम् । न - , च - तादृश भ्रमस्थले श्रुत्याप्यमेदो बोधनीय इति – वाच्यम् ; दोष- प्रयुक्तभेदाग्रह' निबन्धनाभेद ग्रहस्य भ्रमत्वनियमेन श्रौताभेदज्ञानस्य भ्रम- त्वापत्तेः, चरमज्ञाने श्रुत्यवकाशोक्तिरपि न युक्ता; तस्य प्रत्यक्षेण श्रुत्या वा विषयीकृतत्वे तत्र श्रुतिवृत्त्युक्त योगादिति-तन्न ; श्रौतस्या- भेदज्ञानस्य दोषाजन्यत्वेन श्रौतत्वेन चाभ्रमत्वात् दोषप्रयुक्ते भेदग्रह- मूलकत्वस्य भ्रमत्वव्याप्यत्वे मानाभावात् भेदग्रहस्य दोषप्रयुक्तता. नियमेन दोषग्राह्यभेदयोर्वस्तुनोरभेदग्रहस्य प्रमात्वनियमाच्च । चरमज्ञाने श्रुत्यवका शोक्तिर्युक्तैव; चरमत्त्वं हि प्रकृते भेदेनागृह्यमाणत्वम् । न त्वगृह्यमाणत्वम् ; तथाचा गृहीतभेदेऽपि साक्षिसिद्धे तत्र श्रुतिः प्रवर्तत इत्यत्र न दोषः || ज्ञानादिनेत्यादिना स्वविषयोपग्रहः । तं ऐक्यज्ञानात्स्वविषयाच स्वस्य भेदम् । सर्वतो भिन्नेति । बुद्धित्वात् बुद्धयन्तरवदिति शेषः । अनुमानाविषये अनुमेयभेदाप्रतियोगिनि । वाक्यमपीत्यपिकारेणा- 1 भेदग्रह -ख. 2 चरमत्वहानेरविषयीकृतत्वे तत्र ग.