पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ रूपेणोपपादकत्वं गृहीतम् तद्रूपावच्छिन्नमुपपादकमर्था- पत्तेर्विषयः । तत्र यद्यर्थापत्तिगतभेदसाधारणमुपपादकतावच्छेदक- मेकं भवेत्, तढा सोऽपि भायादेव । नचैवमस्ति; तदनिरूप- णात् । तथाहि — घटपटभिन्नत्वमुपपाद्यम्, तदुपपादकं च न सर्व भिन्नत्वम् ; स्वतोऽपि भेदापत्या तदसम्भवात् । नापि स्वातिरिक्त सर्वभिनत्वम्; अद्वैतवादिनं प्रति स्वातिरेकविशेष- णासिद्धेः, स्वत्वाननुगमाच्च । तथाच तेन तेन रूपेण तत्तद्भिन्न- त्वमेव उपपादकमुपेयम् । अत उपपादकतावच्छेदकनानात्वाभ सर्वमुपपाद कमर्थापत्तेविषय इति पृथक्पृथगनुपपत्तिज्ञानापेक्षायां सर्वत्रानुपपत्तिज्ञानेऽनवस्थानात् क्वचिद्धाराविश्रान्तौ तत्रैव लब्धा- वकाशा श्रुतिः सर्वाद्वैते पर्यवस्यतीति किमनुपपन्नम् । दृष्टान्ते 246 [प्रथमः कत्वं गृहीतमिति । यद्रूपावच्छिन्नं विनानुपपन्नत्वं गृहीतमित्यर्थः । सोऽपि अर्थापत्तिगतो भेदोऽपि । उपपाद्यमिति | विषयितासंबन्धेने- त्यादिः, तेन पक्षीभूतज्ञाननिष्ठतालाभः । सर्वभिन्नत्वम् सर्वस्मात्सर्वस्य भेदः । स्वातिरिक्तसर्वाभिन्नत्वम्, सर्वत्र स्वातिरिक्तात्सर्वस्माद्भेदः । अद्वैतवादिनमिति | अद्वैते विप्रतिपन्न मित्यर्थः । तथाचाद्वैते विप्रति- पत्तिकाले स्वातिरिक्त सर्वत्वस्य निर्णयो नेति भावः । स्वत्वेति । तथाच भेदग्राहकं यद्यज्ज्ञानं तत्र तत्र तत्तदन्यसर्व भिन्नत्वमर्थापत्तेर्विषयो वाच्यः, तथाचोक्तज्ञानं प्रत्यक्षार्थापत्यादिरूपमनन्तमित्यनुगतरूपं विना पक्षतया साध्यघटकतया वा न तन्निर्देश सम्भवः । न च – भेदग्राहकत्वेनानुगत- रूपेण निर्देश इति – वाच्यम्; भेदग्राहकभिन्नभेदस्य साध्यत्वे भेद- ग्राहकाणां मिथो भेदस्यार्थापत्त्यविषयतया तत्रैवाद्वयश्रुतेरेवकाशसम्भ- वादिति मावः | नानात्वात् । तत्तद्धर्मावच्छिन्नप्रतियोगिता कभेदत्व- रूपत्वात् । विश्रान्ताविति । तत्तदनन्तधर्मावच्छिन्नप्रतियोगिताक -