पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

250 सव्याख्यायामद्वैतसिद्धौ , त्वेन बलवत् तद्धाधकम् यत्तु सन्दिग्धप्रमाणभावत्वेन दुर्बलं तद्भाध्यमिति व्यवस्थायां द्वैतज्ञानस्य दुर्बलत्वेनाबाधक- त्वस्याद्वैतज्ञानस्य च बलवत्वेन बाधकत्वस्य शब्दप्रत्यक्ष- बलाबलविचारे दर्शितत्वात् । यत्तु 'आपो वा इदं सर्व भूत' मित्यादिश्रुतिः, 'विमतम् जलाभिन्नम्' प्रतीतत्वाज्जलवदि' त्यनुमानं वा स्वबाधकस्य जलाभेदं गृहीत्वा निर्बाधं सत्त्वदुक्त - न्यायेन सर्वस्य जलाभेदं बोधयेदिति तन्न; जलाभेदबोधनेपि , [प्रथमः द्वैतज्ञानं बाघकत्वेनोपन्यभ्य, बाधकत्वाभिमतप्रत्यक्षादिस्वरूपोच्छेदक- त्वादिरूपश्रुतिप्राबल्योपन्यासेन श्रौता द्वैतज्ञाने भ्रमत्वशंकाया अनवकाशं चोपन्यस्य, तेषामद्वैतज्ञाने बाधकत्वज्ञानमद्वैतज्ञानवता कारयितुं शक्यते । न च तदा द्वैतवादिभिरद्वैतज्ञानिनं प्रति व्यवहारव्याघातोs- द्वैतज्ञानेनापादनीयः, यदि त्वमद्वैतज्ञानवान् सदा व्याहतद्वैतव्यवहारः स्या इतीति वाच्यम्; बाघकाद्वैतज्ञाने सत्यपि द्वैतसंस्काराधीनप्रति- भासस्य प्रारब्धकर्मकृतप्रतिबन्धेनानुच्छेदाद्वैतवादिकृतापादनस्याद्वैतज्ञा- निनं प्रति निष्फलत्वात् । न हि तस्य द्वैतधर्भ्रमत्वेनानिश्चीयमाना संभवति, न वापाद्यापादकादिमदे' श्रद्धास्ति येन तत्तत्पराभूतये प्रभवेत् । तदुक्तं खण्डने -- नानात्वमवलम्ब्यापि वदत्तवादिनि । असिद्धभेदाद्वयाघातः पतेदापादकात्कुतः ॥ इति ॥ अत एवाद्वैतज्ञानिनं प्रति पक्षादौ बाधकत्वोपन्यासो व्यर्थ इति भावः । सन्दिग्धप्रमाणभावत्वेन अनिश्चितप्रामाण्यकत्वेन प्रामा- ण्यानश्वाय कशून्यत्वेन । दर्शितत्वादिति । अत्राप्युक्तरीत्याद्वैतदर्शिनं प्रति प्रत्यक्षादेर्बाधकत्वेनोपन्यासासम्भवादि प्रयोजकेन सर्वाद्वैतबोधकत्वेन 2 ससम्भवादि-ग. 1 भेदे न. प्र.