पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

254 सव्याख्यायामद्वैतसिद्धो [प्रथमः 4 सत्यानृत- 'सर्वमसदि 'ति प्रत्यवस्थानमनवकाशम् । ननु श्रुत्या सर्वस्य मिथ्यात्वं वा बोध्यते, ब्रह्माभिन्नत्वं वा । आद्ये 'सर्व खल्विदं ब्रह्मे 'ति सामानाधिकरण्यं न स्यात् ; योरक्यायोगात् । द्वितीये 'इदं रजतम् 'गौरोऽह' मित्यादि- भ्रमाणां प्रमात्वं स्यात् आत्मनि देहादिभेदस्यानृता द्वया बृत्तेश्य बोधकानां वेदान्तानां 'नेदं रजत 'मित्यादि बाघ- कस्य चाप्रामाण्यं स्यात्, घटज्ञानेनैव तदभित्रब्रह्मतदभेदादेः ताव' च्छेदकमिति कानुगमः ? एवंच 'घटो न पट ' इत्यादिज्ञानस्य भेदविषयकत्वं प्रति तादृशज्ञानस्याद्वैतज्ञानाद्भेदत्वेन ' तादृशभेदग्राह- कार्थापत्तेरद्वैत ज्ञानाद्भेदत्वेन एवमन्येषामपि तस्माद्भेदत्वेनोपपादकत्व- मेव युक्तम्; अननुगमस्याविशिष्टत्वात् । तदिदमुक्तं उपपादकता- वच्छेदकनानात्वादित्यादि । यदपि सर्वाद्वैतज्ञाने श्रौते बाधविधया प्रतिबन्धकत्वासंभवेऽपि भेदज्ञानं तत्र भ्रमत्वं कल्पयत्विति तन्मौढ्यम्; अमत्व कल्पकत्वरूप बाघ कत्वस्य वोक्तदौर्बल्यन निरस्तत्वात् || श्रुत्या “एकमेवाद्वितीयमि' त्यादिश्रुत्या | मिथ्यात्वमिति । अद्वितीयादिपदस्य द्वितीयाभाववत्वेन ब्रह्मणोऽवान्तरतात्पर्येण बोधकत्व- मित्युक्तत्वादित्यादिः । ब्रह्माभित्वमिति । सर्वस्येत्यनुषज्यते । अद्वितयादिपदस्य द्वितीयत्वादिरूपविशेषेण निषेधपरत्वादित्यादिः । ब्रह्माभिन्नत्वं ब्रह्मणि प्रसक्तस्य भेदसामान्यस्य निषेधः । भेदसामान्ये च सत्तास्फूर्तिरूपेण ब्रह्मणोऽनुगमात्तत्र तत्प्रसक्तिः । ब्रह्माद्वितीयत्वस्य तद्भेदव्यापकतया तन्निषेधात्तन्निषेधो बोध्यः । एकादिपदस्य तु भेद- शून्यरूपकेवलवाचकस्य सङ्कोचाभावात्साक्षादेव सर्वभेदशून्यबोधकत्व- 1 विरोधिताव-ग. 2 दकत्वेन -ग.