पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अद्वैत श्रुतेर्बाधोद्धारः 255 सर्वस्यापि वस्तुतो ज्ञातत्वेन सार्वश्यम्, वेदान्तानां वैय्यर्थ्यम्, सद्यो मोक्षश्च स्यात्, सुखदुःखबन्धमोक्षभेदाभेददूषणभूषणजयप- राजयभ्रान्तिप्रमादेरपि वस्तुतो भेदाभावेन सर्वसङ्कराया स्वक्रियास्वनथायस्ववचनविरोधाश्च स्युरिति चेन; आद्ये मृद्धटः' इदं रजत' मित्यादाविव उपादानोपादेयभावेनापि सामानाधिकरण्योपपत्तेः । द्वितीये वस्तुतो भेदाभावेऽप्याविद्यक - भेदमादाय सर्वव्यवस्थोपपत्तेः । न च – भेदस्याप्यनाविद्यक - ब्रह्माभिन्नत्वेनाविद्यकत्वायोग इति – वाच्यम्; आविद्यकत्व- स्याप्याविद्यकस्यैवाङ्गीकारात्, अथाविद्यकत्वस्यापि ब्रह्माभिन्न- त्वात्कथमाविद्यकत्वमिति चेत् तस्मिन्नपि तस्य कल्पितत्वादिति गृहाण | ननु – मुक्तावाविद्यकस्यापि भेदस्याभावेनानन्दस्य • दुःखाभिनत्वेनापुरुषार्थत्वापात: ' तत्तदसाधारणरवभावस्य तत्र तत्राभावेऽपि तत्तदभेदे पारिभाषिकोऽयमभेदो भेदे पर्यवस्येत् । and - मिति ध्येयम् । ऐक्यायोगादिति । तथाच श्रुतीनां पूर्वापरविरोध इति भावः । प्रमात्वमिति । सर्वस्य ब्रह्मणा सर्वाभिन्नेनाभेदात्सर्वाभिन्न- त्वादित्यादिः । द्वितीयपक्षेऽपि 'नेह नाना,' 'अनिन्द्रियमविषयम्' ' इत्यादिश्रुतिभिर्मिथ्यात्वेन बोधिते प्रपञ्चे 'सर्व खल्विदं ब्रह्म 'ति वाक्येन ब्रह्माभेदबोधानुपपत्तिर्बोध्या। उपादानोप्रादेययोः सामानाधिकरण्ये परा- भ्युपगतं दृष्टान्तमाह – मृद्ध इति । सत्यमिथ्या सामानाधिकरण्ये परा- भ्युपगतं तमाह - इदमित्यादि । भेदाभावेऽपीति । व्यवहारकाले तदनिश्चयादिति शेषः । तत्तदसाधारणेति । अपुरुषार्थत्वादिरूप - दुःखादिमात्रधर्मेत्यर्थः । तत्र तत्र मोक्षानन्दादौ | तत्तदभेदे तत्र तत्र - 1 तत्र - ग.