पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभ्याख्यामुगमद्वैतसिद्धौ - असाधारणरूपेण भेदमभ्युपेत्य सद्रूपेण मेदनिषेधेऽपीष्टापत्तिर- प्रसक्तनिषेधश्चेति - चेन; एकस्यामेव ब्रह्मव्यक्तौ तत्तदसाधारण- स्वभावानां कल्पितत्वेनासत्वात्सर्वकल्पनानिषेधकाले कल्पित- धर्मावच्छिन्नभेदाभेदादिप्रसक्तेरयोगात् । अत एव नाप्रसक्तप्रति- षेध इष्टापत्तिर्वा; 'सव्यं', 'सन् गुण' इत्यादिप्रतीत्या प्रस- क्तानां तत्तद्धर्माणां ब्रह्माण प्रतिषेधात् । अतः सर्वधर्मशून्याया एकस्या एव सव्यक्तेचिदानन्दरूपायाः प्रतिपादनात्र परिभाषि- कोऽयमभेद इति सिद्धम् । तदेवं 'सर्व ब्रह्माभिन्न मिति मते 256 [प्रथमः दुःखाद्यभेदे । सद्रूपेण भेदनिषेधे सद्भेदस्य निषेषे ब्रह्मणीत्यादिः । तत्तदसाधारणस्वभावानां दुःखत्वापुरुषार्थत्वादीनां द्वैतानां असत्वात् निषेधयोग्यत्वात् । भेदाभेदादीति | भेदो दृष्टान्तत्वेनोक्तः । उक्तश्रुते- र्भेदसामान्यनिषेधकत्वपक्षे द्वितीयमात्रस्य भेदव्याप्यत्वेनार्थान्निषेधः । 'नेह नाना,’ ‘ अस्थूल'मित्यादिश्रुत्यन्तरेण वा स इति भावः । अतएव द्वैत- सामान्यस्यै कस्यां ब्रह्मव्यक्तौ कल्पितत्वादेव । तत्तद्धर्माणामिति । द्रव्य- गुणादीनां भेदसामान्यस्य चेत्यर्थः । यत्र यत्र भेदप्रसक्तिस्तस्य सद्रूप- तादात्म्यावगमाद्ब्रह्माण सद्रूपे भेदभेद्यसामान्ययोः प्रसक्तिरिति भावः । सर्वधर्मशून्याया इति । भेदभेद्यसामान्याभाववस्वरूपव्यावृत्ताकारेणोप- लक्षिताया इत्यर्थः । न पारिभाषिक इति । यादृशभेदज्ञानं यद्विषयक- प्रमोच्छेद्यम्, तादृशभेदस्य विरोधी अभेदः स एव । भेदमात्रज्ञानं चाखण्डोक्तव्यक्तिप्रमोच्छेद्यम्, तादृशव्यक्तेः सर्वाधिष्ठानत्वादुक्तव्या- वृत्ताकारो लक्षितत्वाच्च तदुत्तरं सत् द्रव्यं गुणो नेत्यादिबुद्धेरुच्छ दै। - चित्यात्, सदन्यभिन्नं नेत्यादिशब्दजन्यबुद्धेः परेणापि तदुच्छेदकत्व- स्वीकारादिति, सेव व्यक्तिर्भेदसामान्यविरोध्यभेद इति भावः । सर्व ब्रह्माभिन्नमिति मते । द्रव्यगुणादिकं द्रव्यत्वादिना वाच्छन्ना या ,