पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवॆत्यादिश्रुत्यर्थविचारः 259 दि' त्यत्र चाप्रपदस्य 'तदैक्षत नामरूपे व्याकरोदि' त्यादेव कालेक्षणनामरूपात्मकप्रपञ्चप्रापकस्याविद्यकद्वैतविषयकत्वेन वा- स्तवाद्वैतविरोधित्वाभावः; तथापि 'सदेव सोम्येदमग्र आसी- दि' त्यनेन इदंशब्दोदितस्य विश्वस्य सदभेदेन सत्वमुक्ता पुन- रद्वितीयपदेन तनिषेधे व्याघातः, न हि 'सदासी' दित्यस्या- सदासीदित्यर्थ इति – चेन्न; सद्व्यतिरेकेण नासीदित्यर्थस्यैव 6 क्तव्य ' क्ली बत्व त्यांगस्तु छान्दसत्वात् । सलिलपदस्य सादृश्यरूप संबन्धार्थ कार्श- आद्यच् प्रत्ययान्तस्य पुंस्त्व संभवाच । सर्वप्रातिपदिकेभ्यः किव्व- इत्यनुशासनादाचारार्थ क कि बन्तसलिल शब्दात्पचायच्प्रत्ययेन पुंस्त्वसम्भवेन सलिलामवाचरतीत्यर्थकम्य सलिल इत्यस्य सम्भवाच्च निरोधित्वाभाव इति । नचाद्वैतस्याग्रसत्वादिद्वैतसंबन्धासंभवरूपविरो- धासंभवेडाप एकमेव सदद्वितीयामित्यादिपदैरखण्डस्वरूपस्य बोधो विरो- घिविषयता शालिद्वितीयबोधात्मको न संभवतीति - वाच्यम् ; द्वितीय- संबन्धज्ञानं प्रति महावाक्यजन्यज्ञानस्यैव मूलोच्छेदकत्वेन विरोधि- त्वात् । मूलोच्छेदकज्ञान एवारोपितभावना ' नङ्गीकारात् । ग्राह्याभावा- कारज्ञानविषया तूक्ताखण्डज्ञानं न तद्विरोधि; द्वितीयस्य तत्वेनाभानीत् । एकरूपेण तत्तदभावाकारकस्यैव 'घटो न घट' इत्यादेर्विरुद्धत्वाद्वाधि- तस्यापि शाब्दत्वपक्षे तस्याप्यस्वीकाराच्च । सदभेदेनेत्यादि । सद्भे- दविशिष्टप्रपञ्च आसीदित्यर्थं प्रतिपाद्येत्यर्थः । तनिषेधे प्रपञ्चनिषेधे । व्याघातः सत्वम्य प्रपञ्चे प्रतीतम्य व्याघातः । ननु – – सदभिन्नस्य सत्वमिवाद्वितीयत्वं न विरुद्धम् ; सदात्मनोभयोः संभवात्तवाह - न हि सदासीदित्यादि । असदासीदित्यर्थ इति । सद्रूपमात्रस्य न --- 1 भाना-क. ग. 17*