पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

270 सभ्याख्यानामद्वैतसिदो [प्रथमः - यदेवेहेत्यादौ इह जीवोपाधावमुत्र ईश्वरोपाधौ यदेवामुत्र ईश्वरोपाधावपि तदेव नानेव स्वरूपभेदमपि 'इवोपमायां स्वल्पत्वे' इत्यमरात् इदमुक्तं जीवन सैक्यम्, मनसा आगमाचार्योक्तिसंस्कृतेन । एकत्वोपयोगिपदार्थ शुद्धिमाह – नेह नानेति । इह उक्तोपाधिसंबन्धे चैतन्ये इति भाष्यानुसारिव्याख्यानम विरुद्धम् । ननु – नानाशब्दस्य भिन्नार्थकत्वेऽपि 'न जीर्णमलवद्वासाः स्नातकः स्या'दित्यादाविव विशेषणस्य नाना- त्वस्य निषेषोऽस्तु 'विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषणे ' इत्युक्तेरिति – चेन्न; अप्राप्तत्वे विधेरिव बाघकाभावे निषेधस्यापि विशेष्ये संभावाद्विनिगमकाभावाच्च क्षीणशक्तित्वाभावात् । अन्यथा विशिष्टविधिनिषेधयोरुच्छेदापत्तेः बाघकाभावश्चोक्त एव । दृष्टान्तेतु वासोनिषेधे नमतानिषेध एवं बाधकः । किंच भेदरूपस्य विशे- षणस्य निषेधोऽपि त्वदनिष्टः । न हि त्वया ब्रह्मप्रपञ्चयोरत्यन्ताभेदः. स्वीक्रियते । त्वदीकृतो विशेषोऽपि भेदस्यैव नामान्तरम् ॥ , यतु नेह नानास्तीत्यस्य ब्रह्मणि विनाभूतं किमपि नास्ती - त्यर्थः; 'विनञ्भ्यां नानाऔ न सह' इति सूत्रेण न सहेत्यर्थ- काभ्यां नानाजोर्विधानात् तथाचाविनाभूतं सर्व तत्रास्तीति लभ्यते । न हि बहिं बिना धूमो नास्तीत्युक्ते धूममिथ्यात्वं लभ्यत इति तन; ' पृथग्विनान्तरेणर्ते हिरुहाना च वर्जने' इत्यमरोक्तेर्वर्जनं विनाश- ब्दार्थः । तच्च नञर्थस्यात्यन्ताभावस्य भेदस्य वाधिकरणसंबन्धः वह्निं विना धूम इत्यादौ वयत्यन्ताभाववत्संबन्धः । नलं विना तेजो- रूपवत्, विना वायुः स्वरूपं विना किमपि नास्तीत्यादौ, नीलादिभि- नतदात्म्यं प्रतीयते, नानाशब्दस्य तु मिन्नसंबन्ध एवार्थः । तत्रापि भेदांशमात्रं शक्यम् अधिकरणसंबन्धस्त्वधिकरणनिष्ठ संबन्धरूपो विशे- ." 1 विनाभूतं -ग. (