पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

274 सभ्याख्यायामद्वैतसि (प्रथमः इति बौद्धमतं अनुच्छित्तिधर्मेत्यने नाशेष'गुणोच्छेदो मोक्ष इति वैशेषिकमतं च निरस्य, 'यत्र हि द्वैत' मित्यादिना द्वैते सति रूपादेरीशस्य चेष्टस्य ज्ञानसंभव इत्युक्त्वा यत्रत्वस्ये' त्यादिनाऽद्वैतमते तदसंभव उक्तः । प्रकृतश्रुतेरद्वैतमतपरत्वे नास्त्युच्छित्तिर्येषां तेऽनुच्छित्तयस्तादृशा धर्मा यस्यासावनुच्छित्तिधर्मे- त्यर्थे विरोधादनुच्छित्तिधर्मो यस्येत्यर्थे अविनाशीत्यनेन पौनरुक्तयम्, अनुच्छिात्तिपदेन वेष्ट सिद्धेर्धर्मपदवैय्यर्थ्य च । एवं ' सर्वं तं परादायोऽन्य- त्रात्मनः सर्वे वेदे' त्यत्रात्मनः सर्वाधारत्वोक्तिः, यथा दुन्दुभेरित्यादि यथार्द्रेद्धाभेरित्यादिदृष्टान्ताश्चासङ्गताः । न हि दुन्दुभ्यादौ तच्छ- ब्दादिरध्यस्तः, किंतु तन्निमित्तक इति – चेन्न । यथा सैन्धवेति वाक्ये ब्रह्मैक्यं मोक्ष इत्यस्यैव सिद्धान्तस्योक्तत्वात् यथा सर्वासामपामित्यादौ प्राकृतलयदृष्टान्तपरवाक्ये समुद्रपदस्य जलसामान्यपरत्वेन सैन्धववा- क्येऽपि तथात्वात्, सैन्धवखिल्य उदके प्रास्त इत्येव श्रुतिपाठात्समुद्र - पदस्यैव प्रकृते विरहाच्च । न च – पूर्व मुक्तानां ब्रह्मणि स्थितौ सर्वासामपामित्यादिना दृष्टान्तस्योक्तत्वादिदानीं मुक्तस्य ब्रह्माण स्थितौ दृष्टान्तपरे सैन्धववाक्येऽप्युदकपदं समुद्रपदेन पूर्वोक्तार्थ कमिति -- बाच्यम् ; सर्वासामित्यादौ प्राकृतलये सैन्धववाक्ये ज्ञानप्रयुक्तलये दृष्टान्तोक्त्या तयोरेकार्थकत्वानावश्यकत्वात् || - , यथा नद्यः स्यन्दमानास्समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति " इति नदी दृष्टान्तोक्तेः सैन्धवदृष्टान्तप्रकृतवाक्यसमानार्थकत्वा- संभवात्तत्रत्यसमुद्रपद समानार्थकमुदकपदमित्यस्य वक्तमशक्यत्वात् । 'ब्रह्म वेद ब्रह्मैव भवती ' त्यादिश्रुतिभिर्ब्रह्मैक्यस्य मोक्षत्वोक्तेः । 'यत्र 1 नेनाशेषविशेष - क. ग. "पदेनेवे - क. ग. 2 3 पूर्वमुकानां - क. ग. ● 4 इदानीमुक्तस्य - क. ग.