पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

280 सव्याख्यायामद्वैतसिद्धो [ प्रथमः दुर्बल: पश्यन् वै तन्न पश्यतीति हेतोरसिद्धेश्च । न हीशः स्वभिन्न- त्वेन स्वमूर्त्यादि न पश्यतीति मानान्तरेण निश्चितम्, प्रत्युतायं हि कृष्णो यो हि पृष्टः शरीरद्वयकारणमित्यादिश्रुत्या मूर्त्यादिभिन्नत्वेने- शोक्तया विपरीतमेव निश्चितम् | अद्वैतमते च नोक्तवैय्यर्थ्यम्, न हि न तु तद्दितीयमित्यत्र द्वितीयसामान्य निषेधः; तथा सति तस्य द्वैत- सत्वेऽपि संभवेन न किंचन वेदेत्यस्योपपादनासंभवात्, किन्तु स्थूल- द्वैतस्य निषेधः सूक्ष्मस्य स्थितिश्च प्रतिपाद्यते । दृष्टिद्रष्ट्रा द्योगः संबन्धो 2 व्यावहारिक एवोक्त इति नाद्वैतविरोधः । श्येननीडाद्योः स्वसमसत्ता कभेदवत्त्वे पि जीवब्रह्मणोर्न तद्वत्त्वलाभः, सर्वांशसाम्यस्या- विवक्षणात्प्राज्ञेनात्मनेति स्वरूपार्थकात्मपदेन तयोरभेदोक्तेश्च । यद्यपि सुषुप्तौ चाक्षुषादिवृत्त्यवच्छिन्नचिद्रूपं दृष्ट्यादिकं नास्ति, तथापि ताह- शावच्छिन्नत्वयोग्यतामादाय याचकादिपदस्येव दृष्ट्यादिपदस्य प्रयोग. इत्यदोषः । त्वन्मते तु दृष्ट्यादेरीशे कथमध्यसंभव इति । न हि द्रष्टुरित्यादि पश्यन्नित्यादि चानुपपन्नम् । शुक्लस्येत्यादिकं तु न शुक्लादि- भगवद्रूपैः पूर्णा नाड्य इत्यर्थकम् ; शुक्लाद्यन्नरसपूर्णा इत्यर्थस्य माना- न्तरसिद्धस्य संभवेन तादृशार्थकत्वे मानाभावात् तस्माच्छोकोत्तीर्ण- त्वेन प्रकृतो जीव एव न पश्यतीत्यादौ कर्तेति नास्मदुक्तार्थे विरोध इति । यथा श्येनो वेत्यादि श्रुत्यर्थः ॥ ‘वाचारम्भणं विकारो नामधेय 'मित्यादिश्रुतेरपि दृश्यं मिथ्या ॥ ननु वाचारम्भणशब्दो न मिथ्यात्वे रूढः, नापि यौगिकः; वाचा निष्पाद्यकाव्यादे मिथ्यात्वासप्रतिपत्तेः, वागालम्बनमात्रमिति भाष्य- व्याख्यानमयुक्तम् ; वाचया आरम्भणं यत्रेति व्युत्पत्त्या वागालम्बन- त्वलाभेऽपि मात्रार्थालाभात् नामषेयमित्यस्य नाम मात्रार्थकत्वोक्तचा- 3 1 योवो हि - क. ग. 2 दृष्टिद्रष्ट्रायो. संबन्धोक ग. . वाचा -ग, वाचाया. कं.