पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवेत्यादिश्रुत्यर्थविचारः 281 , , तेन पौनरुक्तचं च, 'मृत्तिकेत्येव सत्य 'मित्यत्रेतिशब्दो व्यर्थः, अर्थविप र्यासे हीतिशब्दः प्रयुज्यते, उक्तं हि महाभाष्ये 'न वेति विभाषा ' इत्यत्र – इतिकरणः क्रियते सोऽर्थनिर्देशाधस्तद्यथा गौरित्याहेत्युक्ते गोशब्दः स्वार्थं त्वक्त्वा स्वस्यैव बोधकः, तथा न वेत्युक्ते प्रकरणसिद्धं स्वपरत्वं त्यक्त्वा न वेतिशब्दः स्वार्थपरः । तथाचार्थप्रकरणे इति- शब्द: शब्दपर, शब्दप्रकरणे च व्याकरणादावर्थपरः, प्रकृते चार्थ- प्रकरणादेवार्थपरत्वसंभवेन नार्थपर इति व्यर्थः । किञ्च विवर्तवादे मृत्पिण्डमृन्मयादिदृष्टान्तानुपपत्तिः । न चाविद्या विशिष्टरूपण ब्रह्म- णोऽपि परिणामित्वात्तदुपपत्तिरिति वाच्यम्; शुद्धब्रह्मण एव ज्ञेयत्वेन तद्विज्ञानेन सर्वविज्ञान प्रतिज्ञानात्, अनाद्यविद्यादीन्प्रति ब्रह्मणोऽनुपा- दानत्वात्तज्ज्ञानेन सर्वज्ञानप्रतिज्ञाविरोषश्च यथा सौम्य मृदा मृण्मयं ज्ञातमित्यस्यैव पूर्णत्वेन एकपिण्डसर्वपदानां वैय्यर्थ्यम् नखानकृन्त नस्यान्त्यावयवित्वेनानुपादानत्वान्मृत्त्वेन निश्चितेऽपि घटादौ संशयान्मृद इव घटादेरपि व्यावहारिक त्वेन द्वयोरपि मिथ्यात्वान्मृत्तिकैव सत्यमित्या- धनुपपत्तेः, शुक्तयादिज्ञानेऽपि रूप्याद्यज्ञानादधिष्ठानी भूत ब्रह्मज्ञानात्स- र्वज्ञानासंभवाच्चासङ्गतिः । यत्तु-शुक्तौ ज्ञातायां रूप्यं ज्ञातं भवति, सा हि तस्य तत्त्वम्, एवं ब्रह्मज्ञानात्सर्वं ज्ञातम्, तद्धि तस्य तत्त्वमिति भामत्युक्तम् तन्न; तथासति ब्रह्मज्ञाद्वह्म ज्ञातमित्यर्थे लब्धेऽपि मृद्धटादिदृष्टान्तेन कारणज्ञानात्कार्यज्ञानस्य प्रकृतस्यालामात् । अधि ष्ठानस्यारोप्यतत्वरूपत्वाभावाच्च | तत्त्वं हि असाधारणं स्वरूपं धर्मो वा । नचाधिष्ठानमारोप्यस्यासाघारणं स्वरूपं धर्मो वा, आरोप्यान्तरसाधार- णत्वात् । अधिष्ठानमात्रस्य तद्रूपत्वे ब्रह्मशुक्तयादरानन्दशुक्तित्वादि तत्वं न स्यात् । तस्माद्वाचा वागिन्द्रियमात्रेणारम्भणं यस्य तन्नामधेय 4. 1 ब्रह्मज्ञानाद्ब्रह्म-क. ग. .