पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवेत्यादिश्रुत्यर्थविचारः 283 त्पिण्डाभिन्नविज्ञ। तस्वरूपमित्यपि बाधायां सामानाधिकरण्यम् । तत्र हेतुर्मृत्तिकेत्येव सत्यमिति, मृत्तिका भूमिरिति गृह्यमाणं यत्तदव सत्यम् । मृत्तिकास्वरूपस्य सत्यत्वाभावात्तदवच्छिन्नसद्रूपस्य दृष्टान्तत्वषीद- वा शायां मृदो विविच्याज्ञानाङ्क्रमित्वेन ज्ञायमानत्वेन सद्रूपलाभार्थमिति - शब्द: ; मनो ब्रह्मेतीत्यादौ ज्ञायमानस्येतिशब्दार्थत्वात् । आद्यर्थको इतिशब्दः, 'इतिहेतुप्रकरणप्रकारादिसमाप्तिण्वित्यमरात् । तथाच भूमिविकारस्वरूपस्य विचारदशायां तत्स्वरूपमित्र भूमिस्वरूप- विचारदशांयां सापि मिथ्या, तत्कारणापञ्चीकृतभूतान्येव सत्यानि, तेषामपि स्वरूपविचारदशायां तान्यपि मिथ्या, तत्कारणमेव सत्यमित्या- द्यर्थलाभः । नखनिकृन्तनपदं चायःसामान्यपरम्, लोहमणिपदमपि सुवणार्थकम् तयोर्विशेषणमेकपदं चैकजातीयार्थकम्, तदुपादानं चैकजातीयत्वेन सर्वत्र स्वविकारे उपादानत्वसंभवलाभाय, इतिशब्दस्तु तत्राप्युक्तरीत्या व्याख्येयः । 'मृत्तिकेत्यव सत्य ' मित्यादौ हेतुः वाचा- रम्भणं विकारो नामधेयमिति, आरम्भणमसमवायिकारणजन्यत्वमुत्प- त्तिर्वा बाचा बापात्रं विचारासह मिति यावत्, तथाचोत्पत्तिः सतोऽसतो वेति निरूपयितुमशक्यत्वादुत्पन्नसामान्यं विचारासहमिति भावः । तावताप्यनाद्यविद्यादिसाधारण्येन हेत्वलाभादाह - विकारो नामधेयमिति । नाशादिविकृतियुक्तं नाममात्रं विचारासहमिति यावत्, अर्थे नामाभेदा- संभवात् 'अब्भक्ष्य इत्यादाविव मात्रार्थान्तर्भावेन विचारासहत्वलाभः । तथा चोत्पत्त्यादिविकृतेस्तयुक्तस्य च संसर्गदुर्निरूपतत्त्वादिना विचारासह- त्वान्मिथ्यात्वमिति निर्विकारं ब्रह्मैव सत्यमिति दृष्टान्तोपपादकत्वेनोक्त- मपि दान्तिकस्याप्युपपादकमिति ध्येयम् । एवं च भामत्युक्तिरपि युक्तैव, अनारोपितरूपस्यैव तत्वरूपत्वेनासाधारणस्वरूपधर्मयोरिवाधि- ष्ठानस्यापि तत्त्वरूपत्वाच्छुक्तिरेव रूप्यस्य तत्त्वमिति लोके व्यवहाराच्च । अत एव सत्त्वज्ञानान्निश्श्रेयसाधिगम इति भाध्ये तत्त्वमनारोपितं 9