पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

284 सभ्याख्यायामद्वैतसिद्धौ [प्रथमः रूप मित्युदयनाचार्याः । अत एव व्यवहारदशायां शुक्तयादावनारो- पितत्वभ्रमेण रूप्यादितादात्म्योपलक्षितत्वेन च रूप्यादे: स्वरूपतत्वं शुक्तिरिति व्यवहारः, शुक्तयादेर्धर्मतत्त्वं शुक्तित्वादिरिति च व्यवहारः, विवेकदशायां तु ब्रह्मैवानारोपितत्वेन ज्ञायत इति वस्तुगत्या तदेव सर्वेषां स्वरूपतत्त्वमित्यागयेन 'ब्रह्म तत्त्वं तपो वेदा' इत्यमरेणोक्तम् । 'तत्त्वब्रह्ममार्गे सम्यक् सम्पन्न ' इति जाबालश्रुतिः, 'युञ्जानः प्रथमं मनस्तत्वाये ' ति श्वेताश्वतरश्रुति । 'भगवन् नाहमात्मवित् स्वतत्त्ववि". दिति मैत्रायणीय श्रुतिश्च | तत्त्वं परमात्मनि वाद्यमेद स्वरूपे चेति हैमः । तननं तत् सम्पदादित्वात् कि, तदस्यास्तीति वप्रकरणे अन्यत्रापति वः, ‘तसौ मत्वर्थ' इति भत्वान्न जस्त्वमिति बोध्यम् || , , अहो ते पाण्डित्यम् येन स्वमपि प्रस्मरसि तव हि तत्त्व- वादित्वं नासाधारणस्वरूपधर्मवादित्वम्; किंत्वनारोपितप्रपञ्चवादित्वम्, तस्मान्नाद्वैतमते उक्तव्याख्याने उक्तदूषणावकाशः । त्वदीयव्याख्यानं त्वयुक्तम् ; तथाहि —-वाचापदेन चागिन्द्रियमात्रं लक्षणीयम्; अन्यथा व्याकरणानिष्पाद्यत्वालाभेनापभ्रंशालाभापत्तेः । मन्मते वाष्पात्रलक्षणा त्वाजानकी ; अर्थासत्वविवक्षायां लोके वागादिशब्दप्रयोगात् । सत्य- पदस्य नित्यार्थकत्वमयुक्तम्; तस्याबाध्यरूढत्वात् । संस्कृतस्य मुख्यनित्यत्वाभावेन सदाशब्दमादाय योगासंभवेन व्याकरण- निष्पाद्यत्वरूप गौणनित्यत्वे लक्षणापत्तेश्च । सदाशब्दस्य त्वनन्त- त्वमपि व्याकरणाप्रसिद्धम् विकारशब्दस्य मुख्यविकारार्थकत्वे त्वदिष्टासिद्धया संस्कृतोच्चारणाशक्तयोच्चार्यमाणार्थकत्वं लक्षणयैव, नामपदस्यापिशब्दार्थकत्वं लक्षणयैत्र, अपभ्रंशस्य सङ्केतवत्प्राति पदिक रूपरूढार्थत्वाभावात् तनूर्वर्षिष्ठेत्यादिवद्यथेत्यादेरनुषङ्गोऽपि " 1 अनारोपितरूप-ग. " त्वं तत्ववि ग. उभंदे-ग.