पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवेल्यादिश्रुत्यर्थविचारः 289 १ • मित्यर्थमादाय तत्सर्वमिति नोच्यते, किंतु तदीयत्वात्सर्वस्य ब्रह्मसंव- न्यात्, संबन्धश्चासतश्चेत्यादि श्लोके विशिष्योक्तः प्रभवाप्यययोर्भास कतायां च नियामकं तादात्म्यं संबन्ध इत्यर्थः; तथाच तस्य चिज्जडतादात्म्यानुपपत्तिदृक्दृश्यसंबन्धानुपपत्त्यादिन्यायैराध्यासिकत्वेना- ध्यासे बाधायां वा सामानाधिकरण्यं न त्वभेद इत्यत्रोक्तव्याख्यान- वाक्यतात्पर्यात् 'एतावदरे खल्वमृतत्व' मित्यादिवाक्यशेषादियुक्तस्य 'इदं सर्व यदयमात्मे ' त्यादेरखण्डात्मप्रकरणस्थस्य बाधायामेव, सगुणो- पासनाप्रकरणस्थस्य 'सर्व खल्विदं ब्रह्मे' त्यादेरध्यासेऽपि सामानाधि- करण्यसंभवनाविरोधात्, ‘सर्व तं परादा 'दित्यत्रान्यत्रेत्यस्यान्यदित्यर्थ- कत्वात्, यथाश्रुतार्थत्वेऽप्यात्मनि सर्वमध्यस्तमित्यर्थपर्यवसानात्, दुन्दु- भ्यादिवाक्यस्य दृष्टान्तद्वारेणाद्वैतपरत्वात् स भूमिमित्यादरम्यां पृथिव्या- मित्यादेश्च सर्वव्याप्तिप्रतिपादनद्वारेणाद्वैतपरत्वात्,' यस्तु सर्वाणी 'त्यादे- रप्यात्मनि सद्रूपे सर्व सर्वत्र स्फुरणरूप आत्मेति कथनेन व्यावृत्तसर्वमनु- वृत्त आत्मनि कल्पितमिति ज्ञापनद्वारात्मैवा भूत्सर्वभूतानीत्यस्योपपाद- · नात्, 'याथातथ्यत' इत्यस्य तथ्यमधिष्ठानत्वेनानातक्रम्येत्यर्थात् यथा पूर्वसृष्टिस्तथेत्यर्थाद्वा विरोधाभावात् । इदं सर्वमित्यादिश्रुत्युप , पत्तिः ॥ "तमेव विदित्वा अतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ' ' यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् वृक्ष इव स्तब्धो दिवि तिष्ठत्येक स्तेनेदं पूर्णं पुरुषेण सर्वम्,' 'ततो यदुत्तरतरं तदरूपमनामयं य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापि - यन्ति' इति श्वेताश्वतरश्रुत्यापि दृश्यमिथ्यात्वम् । अत्र हि तमेवे- त्यादिना स्वान्याविषयकज्ञानस्य मुक्तिहेतुत्वमुक्ता जीवेशभेदादिज्ञानं मुक्तिहेतुरिति मताभासेन विरोधनिरासाय यम्मादित्यादिकमुक्तम्, पर- मिति तुशब्दसमानार्थकम्, यस्मादपरं तु नास्ति परशब्देनापरज्ञानस्य ADVAITA VoL. II. 19 -