पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

202 सव्याख्यायामद्वैतसिद्धो [ प्रथमः - १ I--- १ शास्त्रादिकं तु कथं स्वबाध्यम् ! तत्राह — विकल्प इति । शास्त्रतज्जन्य- तत्त्वज्ञानादिरपि विकल्पो यद्यप्यविधादशायामुपदेशात् ज्ञानान्मोक्ष इति वेदोपदेशं निमित्तीकृत्य केनचिद्वन्धनिवृत्त्यादिकार्यहेतुत्वरूपेण कल्पितः तथापि दृश्यत्वाविशेषात्सोऽपि निवर्तेत बाध्येतैवेत्यर्थः । ननु - ज्ञानस्य बन्धनिवर्तकत्वं वेदोपदिष्टत्वात्सत्यं तत्राह - अयं वाद इति । 'तरति शोकमात्मवि ' दित्याधुपदेशो लोकसिद्धव्यावहारिकहेतुत्वस्यानु- बादः, अतो ज्ञाते द्वैतं सर्वं न विद्यते किंतु बाधितमेवेत्यर्थः । ननु – प्रपञ्च इत्यादिश्लोके भेदरूपस्य प्रपञ्चस्य भास्करादिमतप्राप्तं सत्योपाधि- कृतत्वं निरस्य विकल्प इत्यादिश्लोके मायावादप्राप्तमारेपितत्वं निरस्या- नादिसत्यत्वमेवोच्यते । भेदप्रपञ्चो यदि विद्यते उत्पद्येत तर्हि निवर्तेत, न च निवर्तते ; मोक्षेऽपि परमं साम्यमुपैतीति भेदश्रुतेः, तस्मान्नोत्पद्यत इत्यर्थः । विदसत्तायामिति हि धातुः, उत्पत्तिरपि हि सतायोग एव,. विल्लाभ इति वा धातुः, तथाच स्वं लभत इत्यर्थः । उत्पत्तिरपि यात्मलाभ एव; अस्तित्वार्थकत्वे तु यद्यदस्ति तन्निवर्तेतेति' व्याप्तय. भावादसङ्गतिः । ननूपाधिकृतो न चेद्भेदस्ता है कि स्वन्तत्रः, नेत्याह- मायामात्रमिति | ईश्वरेच्छाधीनमित्यर्थः । 'विष्णोरिच्छावशत्वातु मायामात्रमिति स्मृतेः । स्वप्नमायास्वरूपेति सृष्टिरन्यैर्विकल्पिता' || , इत्यैन्द्रजालिकत्वं मतान्तरत्वेनोक्तम् 'इच्छामात्रं प्रभोः सृष्टि' उरिती- श्वराधीनत्वस्य गौडपादैः स्वमतत्वेन पूर्वमुक्तत्वात् 'प्रभवः सर्व- भावानां सता ' मिति पूर्वं 'कल्पितो यदि केनाच' दिति पश्चात्प्रपञ्च- सत्यत्वस्य तैरुक्तत्वाच्च । निवर्तेतेति तर्कविपर्ययपर्यवसानलब्धानिव- र्यत्वाविरुद्धार्थस्यैव मायामात्रमित्यत्र वक्तव्यत्वाच ॥ 1 स्वात्मलाभ - क. 2 निवर्तत इांत - ग. 3 रितीच्छाधीन -ग.