पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

294 सव्याख्यायामद्वैत सिद्धी [प्रथमः तस्मान्न कल्पित इति विपर्यये पर्यवसानं कार्यम् । 'वादो ज्ञात ' इत्यत्र नज्मश्लेषादज्ञाते तत्त्वे द्वैतं न विद्यत इत्यर्थः । उक्तश्लोकयोर- तर्कपरत्वे यदिशब्द लिङ्पदानि च व्यर्थानि स्युः, स्पष्टश्चायमर्थः श्रुत्यन्तरे --- 'सोऽयं सत्यो बनादिश्च सादिश्चेन्नाशमाप्नुयात् । न च नाशं प्रयात्येष न चासौ ग्रान्तिकल्पितः ॥ कल्पितश्चेन्निवर्तेत न चासौ विनिवर्तते । द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् || ' इत्यत्रेति – चेन्न; उक्तव्याख्याने हि प्रपञ्चपदस्य भेदे सङ्कोच:, विद्यत इत्यत्र विदेरुत्पत्त्यर्थकत्वेऽप्रसिद्धार्थकत्वम्, लाभार्थकत्वे लभते इति व्याख्यानमयुक्तम् ; विन्देतेत्यस्यैव कर्त्राख्यातस्य युक्तत्वात् । अथ – कर्माख्यातेन विद्येतति साधु, तथाच लभ्येतेत्येव पाठ इति, तदप्ययुक्तम् ; लाभमात्रस्योत्पत्तित्वाभावात्, आद्यलाभार्थकत्वे च लक्षणा, सत्तायोगमात्रमपि नोत्पत्तिः ; द्विती' यादिक्षणेऽप्युत्पत्तिव्यवहारापत्तेः, आद्यक्षणावच्छिन्नसत्तायोगार्थकत्वे तु लक्षणा, मायाशब्दस्यापि नेशे- च्छाधीनमर्थः; अनिर्वाच्य एव तस्य रूढत्वात्, 'नासदासीन्नो सदासत्तम असी दित्यत्र सदसदन्यत्वेनोक्ताविद्यायाम् -- 'तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते । योगी माया' मित्यादिस्मृतेः ' मायां तु प्रकृति ' मित्यादिश्रुतेश्च प्रयोगात्, 'अन्या माया पुनः सृष्टे ति संवरयुद्धादौ हरिवंशादौ ‘ स्वप्नमायागन्धर्वनगरवद्वे ’ति गौतमीयपूर्वपक्षसूत्रादौ चानिर्वाच्य एव मया शब्दप्रयोगाच । न हि तत्रापीशेच्छाधीनमर्थ; तथासत्यन्य- त्सृष्ट मित्येव हरिवंशे उक्तं स्यात्, मायापदस्याज्यावर्तकत्वात् । उक्त 6 1 मापे न ; उत्पत्तिद्विती-ग. 2 च-ग. 3 अन्यमाया - ख. 4 अन्यसृष्ट-ग.