पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवेत्यादिश्रुत्यर्थविचारः नोऽज्ञानकल्पित इति त्वयाप्युच्यते । तथाचात्मनि देहादिसंबन्धो देहादिर्वाऽज्ञान कल्पित इत्यनयोर्विनिगमकाभाव इत्यस्य एतद्गन्थादाबेव विस्तरेणास्माभिरुक्तत्वाद्देहादिमिथ्यात्वं त्वन्मते बलादापततीति कथं तव भेदसामान्यस्य सत्यतोक्तिः ? देहादिमद्भिन्नभेदस्य देहादिरूपस्य मिथ्यात्वावश्यकत्वात् कथं वा त्वद्व्याख्या त्वद्भाप्यादिविरुद्वेति व्यक्तमेव भ्रान्तप्रतारकोऽसि । श्रीगौडपादभगवतां श्लोकोप- पत्तिः ॥ 'सत्यं ज्ञानमनन्त' मित्यादिश्रुतावनन्तपदादपि दृश्यमात्रं मिथ्या | नन्वन्तपदं न पारीच्छिन्ने व्युत्पन्नम्; येन परिच्छिन्नशून्यबोधकन- ञ्पदेन बहुव्रीहिणा दृश्यमात्रमिथ्यात्वलाभः, किंतु परिच्छेदे, तथाच यथा गगनादेर्देश कालापरिच्छेदस्वीकारेऽपि देशकालयोर्न मिथ्यात्वलाभः, तथा ब्रह्मणो देशनिष्ठात्यन्ताभावं कालनिष्ठध्वंसप्रागभावौ वस्तुनिष्ठभेदं च प्रति प्रतियोगित्वरूपाणां देशकालवस्तुपरिच्छेदानामभावेऽपि न दृश्य. मिथ्यात्वसिद्धिः । यथा ब्रह्मणो जीवनिष्ठभेदाप्रतियोगित्वेऽपि जीवस्य स्वरूपेण न मिथ्यात्वम् ; किं त्वौपाधिकरूपेण, तावतैव विरुद्धांशत्यागे- नात्यन्तिकाभेदनिर्वाहात्, तथा प्रपञ्चनिष्ठभेदाप्रतियोगित्वेऽपि प्रपञ्चो न स्वरूपेण मिथ्या; किंतु औपाधिकरूपेण । किंचापरिच्छेदों न भेदाभावः; तथासति परिच्छिन्नाद्भेदाभावे ब्रह्मणोऽपरिच्छिन्न शब्दार्थ-

त्वायोगात्, कालापरिच्छिन्नेऽपि परमाणवादी देशादिपरिच्छेद वद्देश काला - परिच्छिन्ने गगनादौ पृथित्र्यादिभेदमात्रेण परिच्छेदम्याव्यवहारात्, अन- न्तपदेन त्वयैव परिच्छिन्नभेदस्योक्तत्वेन विरोधात्, भिन्न इत्यर्थे परिच्छिन्न इत्यप्रयोगाच्च । तस्माढेशकालगुणपरिच्छेदशून्य एवानन्तशब्दार्थ इति - चेन्न; जीवस्वरूपस्य ब्रह्मस्वरूपाविरुद्धत्वेन ब्रह्मैक्यसंभवात्, तद्भेद- , 299 1 नन्वनन्तपदं नापरिच्छने-ग.