पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवेत्यादिश्रुत्यर्थविचारः .: 305

यदासींदनृतेन हि प्रत्यूढा' इत्यादिश्रुतिभ्यः । अतो मिथ्याप्रकृति . कत्वेन' जगन्मिथ्येत्युक्तवाक्यादपि सिद्धयति । यद्यपि मायाशब्दः प्रथमस्तथापि तदर्थो न जिज्ञासितः ; मिथ्यारूपत्वेन लोके ज्ञातत्वात्, अतस्तमुद्दिश्य प्रधानत्वरूपविशेषो नोक्तवाक्येन बोध्यते, किंतु 'मायया संनिरुद्ध' इति पूर्ववाक्ये बन्धस्योक्तो मायारूपो हेतुः प्रकृतिर्न तु निमि- तमिति मायामित्यादिनोच्यते । अन्यथा मिथ्यानिमित्तकस्यापि मिथ्या- त्वासम्प्रतिपत्त्या प्रपञ्चमिथ्यात्वासिद्धेः । तदेतन्मधु इत्यादिश्रुत्यर्थः ॥ ' , - 'अतोऽन्यदार्त 'मित्यादिश्रुत्यापि दृश्यमात्रं मिथ्या; आत्मा- न्यस्य सर्वस्य नाशित्वरूपार्तत्वबोधनेन तेन हेतुना मिथ्यात्वानुमाने तात्पर्यात्, धूमोऽस्तीत्यादेर्वह्नयनुमानतात्पर्यवत् । अथवाऽऽर्तत्वं पीडय मानत्वम् तथाचान्यत्सर्वमत आर्तमेतज्ज्ञाननिवर्त्यमित्यर्थः, 'स्वात्म- ब्रन्धहरः सर्वदा द्वैतरहित आनन्दरूपः सर्वाधिष्ठानं सन्मात्र' इति तापनीयादिश्रुतेः । अथवात एतत्संबन्धादन्यदार्तं पीडितं वितथीकृतं हक्संबन्धादृश्यं मिथ्या; संबन्धानिरूपणादिति भावः । ननु – 'ब्राह्मणादन्यमानये 'त्युक्ते यथा सजातीयशूद्रादिरानीयते 'समानमितर- च्छ्येनेने 'त्यादिश्रुतौ प्रकृतमितरदजातं श्येनयागेन समं बुध्यते न तु काष्ठादि, तथा जीवरूपं सजातीयं प्रकृतं चान्यशब्दार्थः, तस्य च नाशित्वासंभवादार्तं दुःखीत्यर्थ इति -- चेन्न; 'एष त आत्मां, ' 'नान्योऽतोस्ति श्रोते 'त्यादिभिजवैक्याप्रन्नब्रह्मण एव प्रकृतत्वेनातः- शब्देन तस्यैव तत्वात् अतोऽन्यदित्यनेन जीवस्य ब्रह्मान्यत्वोत्तर- संभवात् दृष्टान्ते तु बाघकाभावात् सङ्कोचावश्यकत्वाच्च शूद्रादि- प्रकृतमात्र परत्वमितरपदस्य युक्तम् । अथान्यपदेनात्मान्यत्वेन मनस एव बोधनात्तस्य दुःखित्वं प्रतिपाद्यतामात्मनोऽतिदुःख'तालाभायेति – चेन्न १ , 1 मिथ्या प्रकृतित्वेन -ग. 2 व्रातं ऋ. ADVAITA VoL. II. 3 त्मनो निर्दुःख- -ग. 20