पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकमेवेत्यादिश्रुत्यर्थविचारः यतु कालान्तरेणापि नान्यसंज्ञामुपैति वै । परिणामादिसंभूतां तद्वस्तु नृप तच किम् || परमार्थोऽविनाशीति प्राज्ञैरभ्युपगम्यते । इति वैष्णवात् । मिथ्येति च वृथेत्यर्थकम् ; 'मिथ्यैष व्यवसायस्त इति प्रयोगात् । दुष्टेत्यर्थकं वा; 'मिथ्योपपदात्कृनोऽभ्यास' इति सूत्रे 'पदं मिथ्या कारयते स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थ इति काशिकोक्तौ 'एतेन मिथ्याशब्दस्यार्थमाचष्ट' इति न्यास व्याख्या- नात् । अतात्विकेति च विकारीत्यर्थकम् ; ● 6 परिच्छेदः]

307 तद्वदेव स्थितं यत्तु तात्विकं तत्प्रचक्षते । इति कर्मात् । अविद्यमानेति जीवसंबन्धित्वेनाविद्यमानेत्यर्थकम् ; ‘अविद्यमानं जीवस्य प्रतिभाती' ति स्कान्दात् । स्वप्नादिसमेति चानित्य- त्वादिमदित्यर्थः ; 20* अनित्यत्वविकारित्वपारतन्त्रयादिरूपतः । स्वप्नादिसाम्यं जगतो न तु बोषनिवर्त्यता || इति वचनात् । मायामयेति च प्राकृतेत्यर्थः; त्रिगुणा प्रकृतिर्माया तज्जत्वाद्विश्वमीदृशम् । अनाद्यनन्तकालेषु मायेत्याहुर्विपश्चितः ।। इति स्मृतेरिति चेन्न; तद्वस्त्वित्यस्य तदेव वस्त्वित्यर्थाद्वस्तुत्वस्या- परिणामित्वव्याप्यताया लाभेन व्यापकस्यापरिणामित्वस्वाभाव्येनावस्तु - त्वस्य लाभेऽपि वस्तुत्वस्यापरिणामित्वस्वरूपत्वालाभात् । परमार्थ न पृच्छसि' परमार्थो न भेदवान्, 'परमार्थोऽविनाशी' त्यादि 'विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्यदर्शिन' इत्यन्तेनाद्वैतचिन्मात्ररूप- परमार्थनिरूपणस्यैव प्रकृतत्वेन प्राधान्येनापरिणाम्युक्तेरनुपयोगात् । 6 1 त्वस्याभावेनावस्तु - ग.