पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

310 सव्याख्यायामद्वैतसिद्धौ [प्रथमः वृत्तरूपेण मायापदप्रयोगो नायुक्तः , यथा हि ज्ञानमात्रस्य विद्या- ज्ञानादिपद मुख्यार्थत्वेऽपि तत्त्वज्ञानमात्रवृत्तिना मुख्यज्ञानत्वादिना ' उप- वेक्ष्यन्ति ते ज्ञानं ज्ञानिन' इत्यादौ लाक्षणिकः प्रयोग आजानिकस्तथा सर्वमिथ्या मूलत्वश्रेष्ठत्वादिना भगवदुपाघिमात्रवृत्तिरूपेण मायापदस्य तादृशप्रयोगसंभवात् । अत एव 'जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवती त्यादिश्रुतिरपि व्याख्याता । न हि धार्मिक एव मनुष्य इत्यादिप्रयोगानुरोधेन धार्मिकादा मनुष्यादिपदस् रूढिः कल्प्यते । अतएव - , - ऋतेऽर्थ यत्प्रतीयत न प्रतीयेत चात्मनि । तद्विद्यादात्मनो मायां यथाभासो यथा तमः || इति भागवतम् । अर्थस्य प्रतीयमानस्य स्वस्याभावेऽपि यत्प्रतीयते, खाधि- करणे वर्तमानाभावप्रतियोगीति यावत् तन्मायापदार्थ विद्यात् तस्य. चात्मैवावच्छिन्नान वच्छिन्नरूपेणाधिष्ठानम्, अन्यस्य सर्वस्यापि कल्पित त्वादित्याशयेन - आत्मन इत्युक्तम् । नन्वेवम् – स्वप्रकाश स्याधिष्ठानस्य सर्वदा भात्किंथं तत्रारोपस्तत्राह-न प्रतीयेत चात्मनीति । आत्मनि परमानन्दरूपेण प्रतीयत इति यत्तदपि माया, पूर्णानन्दस्वप्रकाशस्फुरण- रूपप्रतत्यिभावत्ववत् भावरूपमज्ञानं जगदुपादानमपि तादृशमायेति यावत् । तथा च स्वप्रकाशेऽप्यप्रकाशस्य कल्पितत्वात्तन्मूलकोऽन्यस्य सर्वस्यारोप इति भावः । अर्थाभावे प्रतीयमानत्वे दृष्टान्तमाह - यथाभास इति । यथा शुक्तयादौ रूप्याद्याभास इत्यर्थः । प्रकाश- स्वरूपे तदभावत्वेन कल्प्यमानत्वे दृष्टान्त माह – यथा तम इति । यथा मध्यान्हसूर्यालोके तदमावत्वेनोलूकैः कल्प्यमानं तम इत्यर्थः ॥ किंच तार्किकधुरन्धरगौतमसूत्रैरपि प्रपञ्चो मिथ्या; तथाहि 'एकस्मिन्भेदाभावाद्भेदशब्द प्रयोगानुपपत्तेरप्रश्नः (१), बुद्धया विवेचनातु - 1 न युक्तः - ख. - .