पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः शुक्तथादिविषयत्वमवच्छेदकम् ; अननुगमात्, किंतु सर्वानुगत - मधिष्ठानप्रमात्वमेव । तथाच यत्र ज्ञानस्याधिष्ठानप्रमात्वेन निवर्त - कता तत्र मिथ्यात्वेनैव निवर्त्यतेति नियमः सिध्यति । एतादृश- नियमानभ्युपगमे चानन्तनियमकल्पनागौरवरूपो बाधकस्तर्कः । तथाहि — यनिष्ठा यदाकारा प्रमारूपान्तःकरणवृत्तिरुदेति, तनिष्ठं तदाकारमज्ञानं नाशयतीति नियमस्य सिद्धत्वात्, उपादाननाश- स्य चोपादेयनिवर्तकस्वात् शुक्त यादिज्ञानेन तत्तदाकाराज्ञाननाशे तदुपादेयानां रजतादीनां निवृत्तिरौचित्यावर्जितैवेति नियमान्तरा- कल्पनेन लाघवमनुकूलस्तर्कोऽस्मत्पक्षे । अज्ञानोपादेयत्वं च शुक्तिरजतादीनामन्वयव्यतिरेकसिद्धमग्रे स्थास्यति । एवं स्थिते 314 प्रयुक्तषीविषयत्वयोग्यत्वं स्वाश्रयनिष्ठाभावप्रतियोगितारूपमित्यर्थः ।. अधिष्ठानप्रमात्वमिति । मिथ्यानिष्ठप्रतियोगितया नाशं प्रति स्वविषय- विषयाज्ञानतत्प्रयुक्तान्यतरत्वसंबन्धेन प्रमात्वेन हेतुतेति भावः ॥ • ननु – दृश्यनिष्ठप्रतियोगितया नाशं प्रति प्रमात्वेन हेतुत्वमस्तु; यन्निष्ठेत्यादिवक्ष्यमाणनियममूलहेतुत्वानां मयापि स्वीकारान्न घटादि- प्रमया पटायज्ञाननाश । तथाचाकाशादेरज्ञानानुपादानकत्वेऽपि व्याव हारिकदृश्यनाशे मूलाज्ञाननिवृत्तेर्हेतुत्वकल्पनादाकाशादेरात्मज्ञाननिवर्त्य- त्वस्य श्रौतस्योपपत्तिः । शुक्तयादिप्रमाया अपि शुक्तच द्यज्ञाननिवृत्तौ शुक्तिरूप्यादिर्निवृत्तिं प्रति विशिष्य हेतुत्वेन क्लृप्तायां हेतुत्वम्, न तु शुक्तिरूप्यावेरज्ञान प्रयुक्तत्वादज्ञाननाशनाश्यत्वम् ; येन तत्र क्लृप्त- सामान्यहेतुत्वेनैवाकाशादिनाशसिद्धिः शुक्तिरूप्यादेर्भास्करादिमते सत्य एव मिथ्यात्वादानन्दतीर्थादिमते तुच्छत्वादज्ञानाप्रयुक्तत्वात् । एवं चाकाशादेरज्ञानप्रयुक्तत्वासिद्ध्या मिथ्यात्वासिद्धिरित्यत आह - एता- दृशानियमानभ्युपगम इति । नियमान्तरकल्पनेनेति । शुक्ति- रूप्यादिनिवृत्तौ शुक्तधज्ञानादिनाशस्य विशिष्य हेतुत्वकल्पनामूलक- , -