पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] ज्ञाननिवर्त्यत्वान्यथानुपपत्तिः 317 त्वेन, रागादिकं प्रति विषयदोषदर्शनत्वेन, विषं प्रति गरुडध्या- नत्वेन, सेत्वादिदर्शनस्य दुरितं प्रति विहितक्रियात्वेन । एवं च मिथ्यात्वं विनापि ज्ञाननिवर्त्यत्वदर्शनान तन्मिथ्यात्वस्य साध कम् । उदाहृतेष्वपि सत्यत्वासम्प्रतिपत्त्या मिथ्यात्वमेवास्तीति चेत्, अस्तु वा मास्तु; ज्ञाननिवर्त्यत्वमात्रं तु न तस्य साधक- मिति ब्रूमः | हेत्वन्तरेण सिद्धौ चैतदुपन्यासो व्यर्थः । शुक्ति- रूप्यादौ कथमिति चेच्छृणु । अधिष्ठानज्ञानत्वेन तत्र ज्ञानस्य निवर्तकत्वात् । अधिष्ठानज्ञानत्वं हि अज्ञाननाशकज्ञानत्वं वा, अज्ञानसमानविषयकप्रमात्वं वेति तेन रूपेण निवर्तकत्वे तभिव- र्त्यस्य तज्ज्ञानसमानविषयकाज्ञानोपादानकत्वरूपमिथ्यात्वं सि- द्व्यतीति युक्तं शुक्तयादिज्ञानसमानविषय काज्ञानोपादानकत्वेन रजतादेर्मिथ्यात्वम् । सत्वादिदर्शनादिनिवर्त्यदुरितादेस्तु न निवर्तकज्ञानसम/नविषयकाज्ञानोपादानकत्व मिति न मिथ्यात्वम् । एवं चात्मज्ञानस्यापि विहितक्रियात्वेन निवर्तकत्वसंभवादधि- ष्ठानज्ञानत्वेन च निवर्तकत्वे मानाभावानात्माज्ञानोपादानकत्व- रूपमिथ्यात्वसिद्धिः प्रपञ्चस्येति प्राप्तम् । अत्रोच्यते – आत्म- कल्प्यमिति भावः । दोपदर्शनत्वेनेति । रम्यत्वसंस्कारस्या- रम्यत्व रूपदोषसम्कार एव नाशका विराधिसम्कारत्वात् तद्वारोक्तदोष- निश्चयोपि तथेति भावः । एवास्तीति । अस्त्येवेत्यर्थः । तथाच मिथ्यात्वं विनेत्युक्त मसिद्धमिति भावः । हेत्वन्तरेण दृश्यत्वादिना । अज्ञाननाशकेति । तदुपादानाज्ञाननाशकेत्यर्थः । तेन रूपेणेति । तद्रूपव्याप्येत्यर्थः । यद्यपि विहितक्रियात्नति परेणोक्तम्, तथापि प्रतियोगित्वादिनापि निवर्तकत्वशङ्कासंभवत्तामपि निरस्यति-तत्रेत्यादि । 1 कल्पनीयमिति - ग. 2 व्यातंत्र- ग.