पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृष्टिसृष्टयुपपत्तिः 343 सुषुप्तिकालेऽपि वाक्यान्तरविरोधात् ; प्राक् सत्त्वमात्रेण च क्रमाभिधानपर्याप्तेः । ननु – 'यत्रैष एतत्सुप्तोऽभू' दिति यच्छन्देन सुप्ताधारत्वेनोक्तस्य ब्रह्मण एव 'अस्मादात्मन' इत्यनेन पराम- शत्तत्कर्तृकैव प्राणादिसृष्टिर्न तु सुप्तोत्थित जीवकर्तृका; अन्यथाऽ ग्न्यूर्णनाभ्यादेस्तन्तुविस्फुलिङ्गादिजननोक्तिरत्रापि वाक्ये सर्वलो- कसृष्युक्तिवालीकार्था स्यात्, न हि दृष्टिसृष्टिपक्षे अग्न्यूर्णना- म्यादेस्तन्त्वादिजनकत्वं सर्वलोकसृष्टिर्वास्तीति–चेत्, न; यत्रेत्यस्य कालपरत्वेन यच्छब्देन ब्रह्मणो निर्देशाभावात् । न च यत्रेत्यस्य ब्रह्मरूपाधिकरणपरत्वं कालपरत्वं वेत्यत्र विनिगम- नाविरहः; अनन्तरवाक्ये 'क्वैष तदाभू' दित्यत्र व तदेति पदद्व- मेवानन्दप्र|प्तेर्यथाश्रुतासङ्गतेः । तथा च यथा कुमारादिः शयित्वा- नन्दातिशयं गच्छति एवमस्य विज्ञानमयस्य शयित्वानन्दातिशयरूप- ब्रह्मप्राप्तिरूपं शयनमित्यर्थे दृष्टान्तदान्तिकयोः पर्यवसानम् । आन- न्दातिशयप्राप्तिरूपशयनात्पूर्वं शयन विवेचयन्ती श्रुतिराकाङ्क्षितं क्रम- माह --- हिता नामेत्यादि । एवं च पुरीतदाधारिका सुषुप्तिरिति प्रलापो वाक्यार्थाज्ञानादेव; पुरीतत्प्राप्त्युत्तरं मनआधुपाधिलयेन मन- आयुपाधिकृतभेदाभावरूपब्रह्मप्राप्तरेव सुषुप्तित्वस्य श्रुतिसिद्धत्वात् । अत एव ' तदभावो नाडीषु तच्छ्रतेरात्मनि चे 'ति सूत्रे नाडीपुरीत दूह्मणां सुषुप्तौ क्रमसमुच्चयः सिद्धान्तितः | वाक्यान्तरेति । 'न तु तड़ि- तीयमस्ति ततोऽन्यद्विभक्त' मित्यादिवाक्येत्यर्थः । सर्वलोकसृष्टिः सर्वलोककर्मिक सृष्टिः । अनन्तरवाक्येति । गार्ग्य प्रति ब्रह्म ज्ञापयन्नजातशत्रुर्गार्ग्यस्य ब्रह्मस्वरूप प्रश्न ऽप्यसामर्थ्यात्स्वयमेव प्रश्नपूर्वकं ब्रह्मोक्तवान् ' यत्रैष एतत्सुप्ताऽभूद्य एष विज्ञानमयः पुरुषः कैप तदाभूत्कुत एतदागा 'दिति प्रश्नः 'यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुष- '