पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृष्टिसृष्टयुपपत्तिः धीर्विपर्ययरूपेयं यतः शुआदिरूपिणी । मन एवेत्यतः प्राज्ञाः सर्वं रूपं प्रचक्षते ॥ इति वार्तिकामृतमपि तथाह | यतो घीः मनःपरिणामोऽतस्तद्विषयोऽपि सुषुप्तौ मनोऽभावे दृश्यदर्शनयोरभावात्सुप्तोत्थितस्य मनोन्वये कार्य- मात्रान्वयाच्च । गौडपादीयभाष्यतदानन्दगिर्यादौ चायमर्थः प्रपश्चितः । शारीरकसंक्षेपे च- -- तस्माद्ब्रह्माऽविद्यया जीवभावं प्राप्यासित्वा ताबके तु स्वरूपे । त्वच्चित्तेन स्पन्दितं जीवजातमाकाशादि क्षमावसानं च पश्ये: || विद्याविद्ये बद्धमुक्तौ त्वदन्यावाकाशादि क्षमावसानं च विश्वम् । स्वाविद्योत्थस्वान्तविस्पन्दितं तद्विज्ञातव्यं मामहीरन्यथैतत् || • वासिष्ठेऽपि - मनोमयमिदं विश्वं यन्नाम परिदृश्यते । 1 इत्यादिप्रपञ्चः | तस्मादविद्योपाधिकस्य जीवस्य मनउपादानस्वं मन- उपाधिकस्य तस्यैवेतरकार्यमात्रोपादानत्वमिति सर्वमानसिद्धान्तसिद्धम् । आकाशाद्वायु' रित्यादिश्रुतिस्तु कश्चिद्वाय्वादिराकाशादिजन्यत्वेन दृश्यमान आकाशादिजन्य इत्यभिप्राया । अत एव छान्दोग्ये तेज- आदिसृष्टिरुक्ता । वियदा दिसृष्टिक्रमपरसूत्राण्यपि दृष्टिविशेषाभिप्राय काणि । अत एव सृष्टौ श्रुतितात्पर्यमभ्युपेत्यवादत्वं तेषामाकरे उक्तम् अद्वैत ब्रह्मण्येव तत्तात्पर्याच्च । अत एव 'कुत एतदागा ' दिति संसारि- त्वरूपागमनं जीवस्य किमुपादानाभिन्नकर्तृकमिति प्रश्नस्य अस्मादात्मन इति जीवरूपोपादानाभिन्नकर्तृकमित्यर्थकमुत्तरं लिष्टम् | आत्मपदस्य 1 345 दानकत्व-ग.