पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकजीवाज्ञान कल्पितत्वोपपत्तिः 353 समष्टयभिमानिनो जीवस्य सर्वज्ञत्व सर्वकर्तृत्वादिस्वीकारात् । न चानुभवविरोधः; अन्तःकरणाभेदाभ्यासबलात्तदननुभवताद्विपरी- तानुभवयोरुपपत्तेः । सर्वाभिमानिनस्तु सार्वज्ञयानुभवोऽस्त्येव । अत एव 'तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतपे' त्याद्युपप- द्यते । नच –'आचार्यवान् पुरुषो वेदे 'तिश्रुतेरुपदेशं विना जीवस्य तस्वज्ञानमनुपपन्नम्, उपदेष्टव्यादन्यस्य चैतन्यस्या- भावाच्च नोपदेशो युज्यत इति – वाच्यम्; स्वम इवोपदेष्टुः कल्पितस्य संभवात् । ननूपदेष्टृत्वं न कल्पितमात्रस्य, किंतु तत्ववित्वेन कल्पितस्य, तथा चोपदेशात्प्राक्तत्वज्ञाने तदैव मोक्षापत्तिः, उपदेशवैयर्थ्य च, न चैवं स्वप्नेऽपि तुल्यम्; तदा हि शब्दविशेषवक्तृत्वेनैव गुरुकल्पना, न तूपदेशसाध्यज्ञान- विषयविशेषवित्त्वेनेति विशेषादिति – चेन्न; अत्रापि तद्वदेव वाक्यविशेषवक्तृत्वेनैव तत्कल्पनसंभवात् । ननु –– तर्हि 'यदेव भगवान् वेद तदेव मे ब्रूही 'त्यादिश्रुतिः 'उपदेश्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिन' इत्यादिस्मृतिश्चायुक्ता स्यादिति – चेन; सामान्यतो मोक्षोपयोगिज्ञानविषयविन्त्वेनाज्ञाततत्त्वविवेन तत्त्व- मस्यादिवाक्यवक्तृत्वेन वा कल्पितस्य उपदेष्टृत्वसंभवेनोदा- - प्राप्तत्वात्, लाघवानुग्रहाच्च । समष्टयार्ममानिन इति । तत्तन्मनो- वच्छिन्नतत्तदमिमानवतोऽविद्योपहितस्येत्यर्थः । सर्वाभिमानिन इति । स्वकल्पित सर्वात्मकत्व सर्वज्ञत्वादिविशिष्टेश्वराभेदोपासनाधीन सर्वाभिमान - युक्तस्येत्यर्थः । उपपद्यत इति । तादृशाभिमानयुक्तप्रमात्रैव तथोक्तमिति भावः । ननु-भेदस्यापि तादृशज्ञानविषयत्वसंभावनाया भेदवादिनोऽपि तत्त्वमस्यादिवाक्य वक्तृत्वसंभावनायाश्च संभवाद्विशिष्य तत्त्वज्ञत्वेनैव ADVAITA VOL. II. 23