पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एंकजीवाज्ञानकाल्पतत्वोपपत्तिः परिच्छेदः] गुजरानवकाशात् । तस्माच्छिष्यवहुरोरपि कल्पितंत्वात्स्वप्न- वत्सर्वव्यवस्थोपपत्तिः । अथ – कल्पको न निश्चिताद्वैतः; शास्त्रप्रणयनवैयर्थ्यात् नाप्यनिश्चिताद्वैतः; शास्त्रस्य प्रमा- मूलकत्वा भावप्रसङ्गादिति चेन्न; प्रमामूलकत्वाभावेऽप्य- बाधितविषयत्वेन शास्त्रप्रामाण्योपपत्तेरन्त्यपक्षाभ्युपगमात् । न चामुकः स इत्यनिश्रये बह्वायाससाध्यमोक्षार्थप्रवृत्त्ययोगः; प्रतिशरीरमहमहमिकया बद्धोऽहमिति निश्चयस्य स्वानुभवसाक्षि- कत्वेन प्रवृत्तिसंभवात्, एकेनैव जीवेन चैत्रमैत्रादिशरीराणां सजीवत्वसंभवस्य प्रागवोक्तत्वात् । किंच चैत्रमैत्रादिषु कोऽसा- विति प्रश्नस्य किं केनचित् क्रोडीकृतं चैतन्यं विषयः, किंवा निरस्तसमस्तभेदम् | नाद्यः; तस्य कल्पितत्वेनाकल्पकत्वात् । न द्वितीयः; तस्यैकत्वेन तदनिश्चयासिद्धेः । शुद्धचित एकत्वेन वस्तुतोऽसंसारित्वेऽप्यावरणविक्षेपशक्तिद्वयशालिस्वाश्रिताविद्या- वशात्संसारित्वकल्पकत्वमोक्षार्थयतमानत्वाद्युपपत्तिः । ननु - अनादौ संसारे कस्यचितन्त्रज्ञानं मुक्तिश्राभूल वा, आद्ये इदानीं कथाया एव तत्त्वनिर्णयहेतुत्वेन साम्प्रदायिकत्वमिति भावः । प्रमा- मूलकत्वेति । निश्चयमूलकत्वेत्यर्थः । अन्त्यपक्ष इति । आद्यपक्षेऽपि न दोषः; चैत्रो ब्रह्मेत्यादिवाक्यजन्यनिर्विकल्पकनिश्चयस्य मोक्षजनक- त्वेन विजातीय निश्चयस्यैव मोक्षजनकत्वांदतादृश निश्चयेन शास्त्रप्रणय- नसंम्भवात | मोक्षजनकज्ञानमूलकत्वं तु शास्त्रे नापेक्षत' इति ध्येयम् । केनचित् – मनआदिना । क्रोडीकृतम् - विशिष्ट प्रमात्वरूपम् । एकत्वेनेति । न च - तत्तन्मनउप हितेषु क इत्यनिश्चय इति -- बाच्यम्; अविद्योपहितस्यैव मनउपहितत्वेन सर्वमनउपहितानां कल्प- - - - त्वात्तादृश-ग. " शास्त्रेणापेक्षत-ग. • 23* 355 -