पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अविद्यालक्षणोपपत्तिः 359 र्ताधिष्ठानत्वं त्वभ्युपेयत एव । न च - ब्रह्माज्ञाने ब्रह्मणो वृत्त्यव्याप्यत्वपक्षेऽव्याप्तिः, तस्य ज्ञानानिवर्त्यत्वादिति- वाच्यम्; स्वरूपसदुपाधिमत्तद्विषयकज्ञाननिवर्त्यत्वस्य तन्मतेऽपि भावात् । उपपादितं चैतत् दृश्यत्वहेतूपपादने । अथैौपाधिक भ्रमोपादानाज्ञाने ब्रह्मसाक्षात्कारानन्तरविद्यमानजीवन्मुक्ताज्ञाने च ज्ञाननिवर्त्यत्वाभावादव्याप्तिः; तयोर्ज्ञाननिवर्त्यत्वे उपाधि- कालजीवन्मुक्तिकालयोरेव ज्ञानप्रागभाववत्तभिवृत्त्यापत्तिरिति- चैत्र; उपाधिप्रारब्धकर्मणोः प्रतिबन्धकयोरभावविलम्बेन निव- त्तिविलम्बेऽपि तयोर्ज्ञाननिवर्त्यत्वानपायात् । न हि क्वचिदवि- लम्बेन जनकस्य क्वचित्प्रतिबन्धेन विलम्बे जनकताऽपैति । न च तर्हि ज्ञातेऽपि तत्राज्ञात इति व्यवहारापत्ति:; तादृग्व्यव- हारे आवरणशक्तिमदज्ञानस्य कारणत्वेन तदावरणशक्तथभावा- देवेहग्व्यवहारानापत्तेः । यथा चैतत्तथोपपादयिष्यते । न चाविद्याचैतन्यसंबन्धेऽतिव्याप्तिः; साक्षाज्ज्ञाननिवर्त्यत्वस्य वि वक्षितत्वात् तस्याप्यविद्यात्मकत्वाद्वा । न च विशेषणान्तर- वैयर्थ्यम्; अनादिपदस्योत्तरज्ञानानवर्ये पूर्वज्ञाने भावपदस्य ज्ञानप्रागभावे ज्ञानजन्यकार्यप्रागभावे चातिव्याशिवारकत्वेन ●. - दिति । परिच्छिन्नत्वस्य मिथ्यात्वव्याप्यत्वाद्दग्घादिसत्यत्वस्य विप्रति- पन्नत्वात् । ‘परमार्थोऽविनाशी 'ति, ""यत्तु कालान्तरेणापि नान्य- संज्ञामुपैति वै । परिणामादिसंभूतां तद्वस्त्वि "त्यादिस्मृतेश्चेति शेषः । स्वरूपसदुपाधिमत्तद्विषयकेति । उपाध्यविषयकत्वे सत्युपहित ब्रह्म. विषयकेत्यर्थः । कारणत्वेन विषयत्वेन । यथा चैतदिति । शक्तेर- ज्ञानान्यत्वेऽपि न तस्याम तिव्याप्तिः ; निवर्त्यशक्तिमत्त्वम्यैव लक्षणत्व- संभवादित्याधुपपादनमिति भावः । अविद्यात्मकत्वादिति । अविद्या- -