पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

360 सव्याख्यायामद्वैतसिद्धौ [प्रथम: सार्थकत्वात् । ज्ञानत्वेन साक्षात्तनिवर्त्यत्वं तु भवति लक्षणान्त- रम् । नन्वसंभवः कल्पितत्वेन दोषजन्यधमिात्रशररिस्या- ज्ञानस्य ज्ञाननिवर्त्यस्याऽभावविलक्षणस्य च रूप्यंवदनादित्वा- योगादिति - चेन्न; कल्पितत्वमात्रं हि न दोषजन्यधीमात्रशरीरत्वे सादित्वे वा तन्त्रम्, किंतु प्रतिभासकल्पकसमानकालीनकल्पक- वत्त्वम्, सादिकल्पकवत्त्वम्, विद्याऽनिवृत्त्यप्रयुक्तनिवृत्तिप्रति- योगित्वम्, प्रागभावप्रतियोगित्वं वा तन्त्रम् | न च तत्प्रकृ- तेऽस्ति । ज्ञाननिवर्त्यत्वसमानाधिकरणाभावविलक्षणत्वेनावि- द्यायाः सादित्वसाधने 'अजामेकाम्' 'अनादिमायये' त्यादि- शास्त्रविरोधः, अनादित्वसाधकेन ज्ञाननिवर्त्यत्वे सति भाव चिदुभयमेव तत्संबन्धो नातिरिक्त इत्यर्थः । प्रतिभासकल्पकसमान- कालीनकल्पकवस्वं स्वविषयकजन्यधीकालत्वव्याप्यस्वद्रष्टकत्वम् ।' अविद्या विषयकाविद्यावृत्तेः प्रळयादिकालेऽनङ्गीकारान्नाविद्यायां तदिति भावः । सादिकल्पकेति। अविद्येोपहितचिद्रूपोऽविद्याकल्पकोऽनादिः, शुक्तिरूप्यादस्त्वधिष्ठानज्ञानवान् कल्पकः सादिः । अथवा सादिकल्प- नायां' विषयत्वमर्थः अविद्यायास्तु कल्पना स्वोपहितचिद्रूपा न वृत्तिरू पेत्यनादीरति भावः । प्रलयादावप्यन्यदैव वा अविद्यावृत्तरविद्याविषय- ण्याः स्वीकारमतेऽप्याह --विद्याऽनिवृत्तीत्यादि । विद्याया अनिवृत्तिः संबन्धस्तदप्रयुक्ता निवृत्तिर्नाज्ञानस्य, किंतु तत्कार्यस्य | जीवेशभेदादि- निवृत्तिरपि तत्प्रयुक्तेति भावः । यदि च सापि तदप्रयुक्ता तदाप्याह- प्रागभावेति । कल्पितत्वेनाज्ञाने प्रागभावप्रतियोगित्वाद्यनुमेयमिति तु न युक्तम्; व्याप्तिग्राहकतर्काभावात् । प्रागभावानजीकारे कार्यत्वादि तथा बोध्यम् । प्रकृते अज्ञाने । अनादित्वसाधकेनेति । ज्ञानजन्य- 1 कल्पनायाः- ग. -