पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

366. सैयांख्ययामद्वैतसिद्धौ नपायात् । अथ योग्यतावच्छेदकरूपापरिचये कथं तद्ब्रहणम् १ प्रथमलक्षणस्यैव योग्यतावच्छेदकत्वात् । एकमेवाज्ञानमिति पक्षे तु तत्र भ्रमोपादानत्वमक्षतमेव । न चैवं शुक्तिज्ञानेनैवाज्ञाननाशे मोक्षापत्तिः, तस्यावस्थाविशेषनाशकत्वाङ्गीकारात् । व्युत्पादितं चैतदस्माभिः सिद्धान्तबिन्दौ । ज्ञानत्वेन रूपेण साक्षाज्ज्ञाननि- वर्त्यत्वं वा तल्लक्षणमिति च प्रागुक्तमेव । तस्मात्राविद्यालक्षणा- संभव इति सर्वमत्रदातम् ।। इत्यद्वैतसिद्धावविद्यालक्षणोपपत्तिः अवच्छेदकरूपेति । व्याप्येत्यर्थः । लक्षणस्येति । साक्ष्यादिना तद्दू- हणं बोध्यम् । अवस्थाविशेषा नक्की कारपक्षेऽप्याह व्युत्पादितमिति । प्रमाविरहविशिष्टाज्ञानं न भातीत्या दिव्यवहारनियामकमित्यादिनेति शेषः । नव्यमेत उत्तरज्ञानादेरपि ज्ञानत्वादिना निवर्तकत्वादाह - साक्षादिति । समानविषयकत्व संबन्धेनेत्यर्थः । ज्ञानस्य स्वप्रागभावं प्रति प्रतियोगित्वेन' नाशकत्वमिति तत्रातिव्याप्तिर्दूरापस्ता । वस्तुतो ज्ञानत्वेन' प्रमात्वेन; पूर्व प्रामा त्वेनाज्ञाननिवर्तकत्वस्योक्तत्वात् । तथाच साक्षादित्यपि न देयम् ; अज्ञानप्रयुक्तनाशस्य प्रमात्वेन ज्ञानज- न्यत्वाभावादेवाज्ञानप्रयुक्तवारणादिति ध्येयम् || 'तर्फेः सारस्वतै रनैश्चन्द्रिकाचन्द्रभूषणैः । दुरन्तध्वान्तनाशार्थमविद्यालक्षणोदयः T: || इत्यविद्यालक्षणोपपत्तिः 1 स्वप्रागभावप्रतियोगित्वेन -ग. 2 वस्तुशानत्वेन -ग. 3 पूर्वप्रमा-ग.