पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

386 सव्याख्यायामद्वैतसिद्धौ [प्रथमः - स्वादिति – चेन; एवं प्रतिबन्धककल्पने मानाभावावुक्त संभाव- नाविरहदशायामप्येतादृशसंशयदर्शनाच्च । ननु - - यथा यावद्वि- शेषाभावेभ्योऽतिरिक्तं सामान्याभावो रूपस्य संशयकोटिः , तथा रूपसामान्यमपि यावद्विशेषेभ्योऽतिरिक्तं संशयकोटिर्ना- भ्युपगन्तुं शक्यते, तथा च कथं रूपस्य संशयकोटित्वम् ? सर्वरूपाभावनिश्चयात् । यदि तु नीलपीताद्यभावत्वेन निश्चयेऽपि रूपाभावत्वेनानिश्चयाद्रूपासंशय इति ब्रूषे, तदा किं सामान्या- भावेन; रूपत्वावच्छिन्न प्रतियोगिताकाभावत्वेन संशयसंभवात्, धर्मिकल्पनातो धर्मकल्पनाया लघुत्वेन यावद्विशेषाभावानामेव रूपत्वावच्छिन्न प्रतियोगिताकत्वकल्पनात्, अतो न यत्किचिद भावमादाय 'घटो नीरूप' इति प्रतीतिप्रसङ्ग इति चेन; यावद्विशेषाभावेषु यदृपत्वावच्छिन्न प्रतियोगिताकत्वं तत्प्रत्येकं विश्रान्तम्, व्यासज्यवृत्ति वा । आद्ये यत्किंचिदभावमादाय ' घटो नारूप' इति प्रतीति प्रसङ्गः । द्वितीये तत्तद्रूपत्वावच्छिन्न- प्रतियोगिताकत्वस्याव्यासज्यवृत्तिस्वभावत्वेन तव्यतिरिक्तं रूप- त्वावच्छिन्न प्रतियोगिताकत्वं व्यासज्यवृत्ति कल्पनीयम् । तद्वरं रूपत्वायच्छिन्नप्रतियोगिताक एक एवाभावः कल्प्यते । ममै - कोऽभाव: रूपत्वावच्छिन्न प्रतियोगिताकत्वं चेति वस्तुद्वयं कल्प्यम्, तव तु रूपत्वावच्छिन्न प्रतियोगिताकत्वं तस्य च व्यासज्यवृत्तित्वेन बहुष्वभावेषु प्रत्येकं संबन्धा इति बहुक- ल्पनम् । 'धर्मिकल्पनातो धर्मकल्पनाया लघुत्व' मिति न्यायस्तु कल्पनीयाधिक्यापेक्षः । किंच घटद्वये यावद्विशेषाभावसत्त्वेऽपि यावत् । विशेषप्रतीतीति । विप्रतीतीत्यर्थः । विरहदशायामिति । विशेषाभावकूटनिश्चयेऽपीति शेषः । प्रत्येकं संबन्धा इति । प्रत्ये ,