पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

388 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः vidades त्वेऽपि ' न जानामी' ति धियः अपरोक्षायास्तद्विषयत्वायोगात् । अव्यभिचारिलिङ्गाद्यभावात्तदनुमानमपि दूरनिरस्तमेव । ननु - 'इदं माभू' दितीच्छाविषयतया तत्सिद्धिः, नः प्रागभावस्य स्वरूपतोऽसाध्यत्वेन प्रतियोगिजनकविघटनेन तत्संबन्धस्येवा- त्यन्ताभावसंबन्धस्यापि साध्यत्वात्तेनैवान्यथासिद्धेः । अथो- त्पन्नस्य द्वितीयक्षणे पुनरुत्पत्त्यभावात्तत्पूर्वक्षणे सामग्रथभावो वाच्यः ; स च प्रागभावाभावादेव, अन्यहेतूनां सत्त्वादिति चेन; सामयिका त्यन्ताभावेनैवान्यथासिद्धेः, उत्पन्नस्यैव स्वोत्प त्तिविरोधित्वाच्च । अपि च सामग्री कार्यसच्चे प्रयोजिका न तु तस्याद्य कालसंबन्धरूपोत्पत्तावपि । आद्यकालसंबन्धो हि स्वस- मानकालीनपदार्थध्वंसानाधारकालाधारत्वम् । तत्र सामग्री कार्यस्य कालाधारत्वांशमात्रे प्रयोजिका न तु विशेषणांशेऽपि तस्य तादृक्पदार्थध्वंससामग्रीविरहादेव सिद्धेः । पाकजरूपादि- भेदोऽप्यग्निसंयोगभेदात् पूर्वरूपादिध्वंसभेदाद्वा, न तु प्रागभाव- कारकस्यापि प्रत्यक्षस्य दुर्वारत्वादिति शेषः । साध्यत्वात् - क्षेमसाधा- रणसाध्यत्वात् । सामयिकेति । समयविशेषावच्छिन्नेत्यर्थः । उत्पन्न- स्येति । वस्तुतो द्रव्यत्वाद्यवच्छिन्नं प्रति कारणकूटस्याधिकरणीभूतो द्रव्यादिशून्यो यः क्षणस्तदुत्तरक्षणत्वं द्रव्याद्युत्पत्तिव्याप्यमित्येव द्रव्यादेः स्वोत्पत्तिविरोधित्वमिति ध्येयम् । ननु पाकजानां रूपरसगन्धस्पर्शानां भेदः कारणभेदं विनाऽनुपपन्नः कारणान्तराणां पाकादीनामभेदान्नाना- प्रागभावरूपकारणं रूपादौ कल्पयतीत्यत आह - पाकजेति । न तु प्रागभावेति । तयोः क्लृप्तत्वादित्यादिः । यद्यपि रूपाद्यत्यन्ताभावस्य रूपादिहेतुत्वं संभवति, तथापि रूपव्यक्तीनामेकेन तेजः संयोगादिना जायमानानां मिथो भेदाय तत्तद्धंसहेतुत्वमुक्तम् । एकस्य पूर्वरूपध्वंस - - -