पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
390

सव्याख्यायामद्वैत सिद्धौ [प्रथमः - 9 रोचते ; आद्यक्षणे ‘घटो नीरूप' इंति प्रतीतेः सर्वसिद्धत्वात्, यावदाश्रयतद्भेदग्रहस्य द्वित्वादिग्रहे हेतुत्वेऽप्युक्तप्रतियोगिता- ग्रहे हेतुत्वानभ्युपगमात्, कार्योनेयधर्माणां यथाकार्यनुनयनात् । यत्त'क्तप्रतियोगितानिरूपकत्वमव्यासज्यवृत्तिस्वभावतत्तदभावस्व रूपत्वान्न व्यासज्यवृत्तिकं संभवतीति दीघितावुक्तम् तन्न युक्तम्; बौद्धाधिकारशिरोमणौ विषयतादे: स्वरूपसंबन्धत्व निरासेनाभावस्वरू पस्य स्वस्मिन्संबन्धत्वासंभवादतिरिक्तसामान्याभावस्वीकारेऽपि तदति- रेकस्योक्तनिरूपकत्वेऽवश्यं वाच्यत्वात् । यदप्यैकाधिकरण्यावच्छिन्न- त्वेनाभावा ' रूपं नास्ती 'त्यादिधीविषया वाच्या; अन्यथा पृथिव्यां यावन्ति नीलरूपाणीत्यादिवत् पृथिव्यां न रूपमित्यादिकमपि वाक्यं योग्यं म्यादिति, तदपि न युक्तम्; यावन्नीलत्वावच्छिन्नाधेयतायाः पृथिव्यनिरूपितत्वात् नीलत्वाद्यवच्छिन्नाघेयत्वस्यैव पृथिवीनिरूपि- तत्वेन यावन्नीलेषु दृष्टान्ते बोधात्, दान्तिके तादृशप्रत्ययादर्शनेन रूपत्वाद्यवच्छिन्न प्रतियोगिताकत्वावच्छिन्नाधेयताबोध्यं प्रत्येव पृथिव्यां रूपं नेत्यादिवाक्ये साकांक्षत्वस्य कल्पनात् । सिद्धत्वादिति । तथाच सामान्य रूपेणात्यन्ताभावे समयविशेषावच्छिन्नवृत्तिके न विवाद: ; नञः स्वसमभिव्याहृतपदार्थतावच्छेद करूपेणात्यन्ताभावबोधकत्वस्य व्यु- त्पन्नत्वेन नीरूपमित्यादिवाक्यस्य तदावश्यकत्वात्, अन्यथा निर्घटं सघटमित्याद्यापत्तेः । एवं च सामान्यरूपेण विशेषस्य प्रागभावादिः समयावच्छिन्नत्वेनेह कपाले इदानीं घटो नास्तीत्यादौ विषय इति यत्परेणोक्तं तदपास्तमिति भावः भावः । ग्रहे निरूपकत्वग्रहे । अनभ्युपगमादिति । न चोक्तप्रतियोगिताकत्वान्यव्यासज्यवृत्तिप्रत्य- , 2 वाक्यस्य - ग. उ साकाङ्क्षत्वकल्पनात् --ग. 1 बोधं -ग. वाया - ग. 4 सम.