पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 393 न पदार्थान्तरसिद्धिरित्यद्वैतवादिनो वदन्ति । तदेवं 'अहमज्ञ' इति ज्ञानस्याभावज्ञानसामग्रीविलक्षणसामग्रीजन्यत्वादभावविल- क्षणविषयत्वं सिद्धम् ॥ एवं 'त्वदुक्तमर्थ न जानामी' ति प्रत्यक्षस्यापि । ननु – साक्षात्त्वदुक्तार्थविषयं प्रमाणज्ञानं मयि नास्तीत्येतद्विष- यकमुदाहृतज्ञानम् । तच्च न साक्षादर्थविषयम्; प्रमाणज्ञानाव- च्छेदकतयार्थस्य भानात्, अतो न व्याघात इति चेन; साक्षात्वदुक्तार्थमवेत्य हि तदभावो ग्राह्मः । तज्ज्ञानं च न साक्षिणा; स्वस्मिंस्ता दृक्प्रमाणज्ञानाभावात्, अन्यनिष्ठं तु शब्दादिना ग्राह्यम् । शब्दादिश्च त्वदुक्तार्थ बोधयमेव तद्विषयत्वं ज्ञाने बोघयेत् । तथाच प्रथमतस्त्वदुक्तार्थविषयकं साक्षादेव “दा बबश्यं कल्प्या; तथाच किमपराद्धं वाय्वादिमात्रवृत्त्यभावे' | नच--- तस्यातिरिक्त संबन्धादि कल्पने गौरवमिति -- बाध्यम्; तस्यामपि तस्य तुल्यत्वादिति भावः । सिद्धिः तात्त्विकत्वम् | कालस्य तात्त्विकत्वेन सर्वदृश्यसंबन्धित्वेन च पराभ्युपगतस्य (पराभ्युपगत ) ज्ञानस्थानीयज्ञे- यानां प्रकार रूपतास्वीकारेणोपपत्त्या स्थिरतात्त्विकज्ञेयपदार्थ कल्पने माना- भाव इति भावः । साक्षात्वदुक्तार्थविषयमिति । स्वविषयज्ञानं प्रत्यविशे- षणीभूतः त्वदुक्तार्थो विषयितासंबन्धेन यत्र ज्ञाने तदित्यर्थः । तदभावः उक्तज्ञानाभावः। तज्ज्ञानं उक्तज्ञानस्य ज्ञानं अर्थम् । त्वदुक्तार्थ बोधय- निति । त्वदुक्तार्थज्ञानवानयमित्यादिवाक्यजन्यबोषोऽर्थस्त्वत्वदुक्त इत्य- वान्तरवाक्यार्थबोध पूर्वको बाच्यः; अन्यथा तस्य विशिष्टवैशिष्ट्यबोधत्वा - संभवात् । न च – भावरूपाज्ञान प्रत्यक्षस्येवोक्तज्ञानाभावप्रत्यक्षस्थापि 'विशेष्ये विशेषण' मित्यादिरीत्या वाच्यत्वात्तन्मूलं शाब्दज्ञानमपि 1 वाग्वादा-ग. 2 भावेन–ग. 85 प्रकाश-ग. बोधकत्वा-ग. अज्ञानप्रत्यक्षोपपत्तिः 4