पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

400 सव्याख्यायामद्वैतसिद्धौ - ज्ञानस्य वृत्तिवेद्यत्वे वृत्त्यभावदशायां संशयाद्यापत्तिरिति- वाच्यम् ; अज्ञानविषयाज्ञानाभावेन तदयोगात्, संशयादेस्तत्का- रणीभूताज्ञानसमानविषयत्वनियमात् । भावत्वादिना संशये त्वि- ष्टापत्तिरेव; भावत्वादेः साक्षिवेद्यत्वाभावेनाज्ञानविषयत्वात्, अज्ञानस्य स्वरूपेणैव साक्षिवेद्यत्वात् । ननु – तदा ज्ञाना- भावोऽपि स्वरूपेणैव भासताम् सप्रतियोगिकत्वेनाभावज्ञान एव प्रतियोगिज्ञानस्य हेतुत्वात्, अन्यथा 'प्रमेय' मिति ज्ञानेऽ- व्यभावो न भासेतेति–चेन्न; साक्षिणा तावका स्वरूपेणाभावा- वगाहनम् । तस्य साक्षात्साक्ष्यवेद्यत्वात् । नापि शब्दादिना; तदानीं तेषामभावात् । नाप्यनुपलब्ध्या; तस्याः प्रतियोगि ज्ञाननिरपेक्षाया अजनकत्वात् । नच – दृष्टाभावान्तरविलक्षण- स्वभाव एवायमभाव इति स्वरूपेण साक्षिवेद्योऽस्त्विति -. वाच्यम्; निर्विकल्पकबुद्धिवेद्यत्वे भावत्वस्यैवौचित्यात्, अन्यथा परिभाषामात्रापत्तेः । ननु ज्ञानविरोषित्वादेस्तदाननुभवेन 'नावेदिष' मिति तेनाकारेण कथं परामर्श : १ न; द्रष्टुर्धन्तः- करणतादात्म्येनाहमुल्लेखस्येव ज्ञान विरोधित्वादेरपि तदैवानुभूय- मानत्वेन तदंशे परामर्शत्वानभ्युपगमात्, सुषुप्तिकालीनस्य मिति | हेतुमिति शेषः । अजनकत्वादिति । अन्यथा तया नेत्येवा- कारकज्ञानस्यापत्तिरिति भावः । तदैवेति । सविकल्पकवृत्तेरहङ्कार- जन्यत्वेन ज्ञानविरोधित्वसविषयकत्वादिप्रकारकाविद्यावृत्तिर्न सुषुप्तौ - जायते । अत एवोक्तं सिद्धान्त बिन्दा - ' अहकाराभावाच्च न विशि ष्टवृत्ति' रिति । अज्ञानस्वरूपमात्रांशे स्मृत्यैव स्मृतित्वानुभवोपपत्तौ ज्ञानविरोधित्वावंशे स्मृतितन्मूलवृत्तिकल्पने मानाभावेनान्वयव्यतिरेका- स्याप्यापत्तिरिति - ग. 1 6 [प्रथमः