पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] द्रष्टुरेव परामृष्टत्वात् । नन्वज्ञानवृत्तिप्रतिबिम्बितचैतन्यरूपस्या- ज्ञानानुभवस्य जाग्रत्यपि विद्यमानत्वात्कथमज्ञानस्मरणम् ? न हि धारावाहिकेष्वनुभवेषु तुल्यसामग्रीकेषु स्मरणव्यवहारः तथाच धारावाहिकोऽज्ञानानुभव इति वक्तव्यम्, न तु परामर्श इति, सत्यम् ; सुषुप्तयाख्यायास्तामस्या अज्ञानवृत्तेर्नाशेन जाग्रति तद्विशिष्टाज्ञानस्य साक्षिणानुभूयमानत्वाभावेन संस्कारजन्या- विद्यावृत्यैव सुषुप्तिविशिष्टाज्ञानभानात्परामर्शत्वोपपत्तेः, केवला- ज्ञानांशे तु तुल्यसामग्रीकत्वाद्धारावाहिकत्वमेव; अत एव कार्योपाधिविनाशसंस्कृतमज्ञानमात्रमेव प्रलयोपमं सुषुप्तिरित्य- अज्ञानप्रत्यक्षत्वोपपत्तिः 401 •भ्यामहङ्कारस्य सप्रकारकवृत्तिसामान्यहेतुता । वस्तुतोऽहङ्कारस्येव ज्ञानविरोधित्वसविषयकत्वादिरूपाणामज्ञानपरिणामानां सुषुप्तौ संस्कारता- पन्नत्वेन साक्षिभास्यत्वायोग्यत्वादेव तदा सप्रकारकवृत्त्यभाव इति नोक्तहेतुतापीति ध्येयम् । परामृष्टत्वात् स्मर्तृत्वात् । प्रमां प्रत्येव मनसः परिणामित्वेनाविद्यावृत्तिरूपम्मृतेरविद्या मात्रपरिणामित्वेन हितस्य साक्षिण एव तदाश्रयत्वमिति भावः । अविद्यावृत्यैवेति । नच – जागरे बाघाभावादागन्तुकदोषाजन्यत्वाच्च सुषुप्तिः स्मृतिर्वा नावि- द्यावृत्तिरिति – वाच्यम्; अविद्यावृत्तिसामान्यस्य जागरे बाध्यत्वाद्य- नियमात् । ब्रह्मज्ञानान्याबाध्यासु देहात्मैक्यादिगोचरासु चाविद्या- वृत्तिषु व्यभिचारात्, सुषुप्तिपूर्वस्वमादेरेवागन्तुकदोषत्वसंभवाच । सुषुप्तिविशिष्टाज्ञानेति । विशिष्टस्वरूपमात्रेत्यर्थः । अज्ञानस्य भानात् विषयीकरणात् । केवलाज्ञानेति – विशिष्ट स्वरूपान्याज्ञान- स्वरूपेत्यर्थः । एकैव निर्विकल्पकवृत्तिर्विशिष्ट केवलाज्ञानस्वरूपद्वय- विषयिका विशिष्टांश स्मृतिः केवलांश त्वनुभव इति भावः । विनाशसंस्कृतं – विनाशरूपसूक्ष्मावस्थायुक्तम् । अज्ञानमात्रं तु न ADVAITA VOL. II. 26