पारेच्छेदः] अज्ञानप्रत्यक्षत्वोपपत्तिः इत्यादि । अभिप्रायस्तु वर्णितः । एवंच साक्ष्यज्ञानसुखा- कारास्तिस्रोऽविद्यावृत्तयः, सुषुप्तयाख्यैकैव वा वृत्तिरित्यन्यदे- तत् । निर्विकल्पकस्यापि स्मरणजनकत्वम् । अहङ्कारोपराग- कालीनत्वाभावेन तत्तानुल्लेख इत्यादि सर्वमुपपादितमस्माभिः सिद्धान्तबिन्दौ । तस्मात्सौषुप्तानुभवोऽपि भावरूपाज्ञानविषय इति सिद्धम् ॥ इत्यद्वैतसिद्धौ अज्ञानप्रत्यक्षत्वोपपत्तिः ॥ ज्ञानाकारा सुषुप्तिः, तत्सूक्ष्मावस्थारूपां नाशश्च तदविषयकोऽपि तस्मृति- • हेतु:, वृत्तिसामान्यस्य स्वस्वविषयस्मृतिहेतुस्वनारा प्रतियोगित्वकल्प- नात् । ज्ञातत्वेनैव हि सर्वं स्मयते, तादृशवृत्तस्तद्विषयीभूतवृत्त्यन्तर- 'विषयत्वं वा कल्प्यत इति नानवस्था । तथाचैतादृशसुषुप्तौ स्वरूपसुख चोक्तानुभवो न चेदभ्युपयते, तदा नावेदिषमिति धीस्तदुभयविषयिका किंनिबन्धनत्यनेन तदुभयविषयकत्वानुरोधेन सौषुप्तवृत्तिरावश्यकी । ततश्च तस्यामेवाज्ञानविषयकत्वं स्वीकृत्याज्ञानांशेऽप्यनुभूयमानं स्मृतित्वं सुषुप्तिसुखा कारस्मृतेर्नापलपितुं युक्तमित्युक्तमिति ध्येयम् || वर्णित इति । विवरणम्य योऽभिप्राय उक्तः स एवं न चेत्यादिवार्तिकस्यापीत्यर्थः । जनकत्वमिति । अदृष्टदशरथत्वादि- विशिष्टे शक्तिग्रहाधनुरोधेन प्रसृष्टविशेषणिकाया आकाशादिपदजन्या- याश्च स्मृतेः स्वीकारादिति शेषः । तत्तानुल्लेख इति । तद्देशकाली- नत्व रूपतत्तायाः सुषुप्तौ लयंनाहङ्कारकाल एवानुभवात्तत्कालीनानुभव- जन्यस्मृतेरेव तद्विषयकत्वमिति भावः ॥ 1 तस्मृतिहेतु वृत्तिमामान्यस्य स्वस्वविषय स्मृतिहेतुः; वृत्ति-ग. शक-ग. 405 2 ना-
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९३२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति