पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञान - अनुमानेोपपत्तिः मात्रेण प्रमात्वव्यवहारोपपत्तेः । यदाहुः - - 407 'धर्म्यशे सर्वमभ्रान्तं प्रकारे तु विपर्यय ' इति । यदि तु भ्रमसंशयाजनकमपि तदाकारमज्ञानमनुभवबलादास्थी- येत, तर्हि सापि पक्षेऽन्तर्भवतु, प्रमाणवृत्तित्वावच्छेदेनैवाज्ञान- निवर्तकत्वानपायात्, तदा च विवादपदमिति विशेषणमनादे यम् । एतस्मिन् पक्षे भ्रमोपादानत्वयोग्यत्वमविद्यालक्षणं द्रष्ट- व्यम् ; भ्रमोपादानत्वस्य धर्म्यशज्ञाननिवर्त्याज्ञानेऽव्याप्तेरित्यव- धेयम् । धारावाहिकबुद्धीनां च तत्तत्कालावच्छिन्नार्थविषयत्वेना- ज्ञातज्ञापकत्वमस्त्येव ; कालस्य सर्वप्रमाणवेद्यत्वाभ्युपगमात् । अनात्माकारप्रमाणवृत्तीनां च तत्तदवच्छिन्नचैतन्यविषयत्वेन धर्म्यशे– इदंत्वांशे प्रकारे इदंत्वान्यांशे । भ्रमोपादानत्वस्य- अमोपधायकत्वस्य | कालावच्छिन्नेति । कालविशिष्टेत्यर्थः । न च तत्तत्क्षणानामतीन्द्रियत्वात् स्थूलकालस्य च प्रथमज्ञानेन गृहीतत्वेन द्वि- तीयादिज्ञानानां तद्विषयका ज्ञाननिवतकत्वासंभव इति वाच्यम्; स्वोत्प- त्तिकालोत्पन्नस्थूलकालस्यैव तत्तज्ज्ञानग्राह्यत्वात् क्षणानामतीन्द्रियत्वे मानाभावाच्च । न च ---परोक्षापरोक्षयोर्घटादिज्ञानयोस्तुल्यविषयकश्वानु- भवादपरोक्षे कालो न विषय इति वाच्यम्; परोक्षस्यापि तद्विषयक- – त्वस्य परिच्छिन्नत्वहेतूपपादनेऽस्माभिरुपपादितत्वात् । धारास्थल वृत्त्यैक्य- स्वीकारे तु नोक्तशङ्कापि; प्रकृतानुमानांदव लाघवसहकृतात्तदैक्यसिद्धि- संभवेन तार्किकादीन्प्रत्यपि प्रकृतानुमानसंभवात् । सर्वप्रमाणेति । परि- च्छिन्नत्वहेतूपपादने विवेचितमेतत् । तत्तदवच्छिन्नेति । ज्ञानसामान्य- सामग्रया एव ज्ञानेषु तत्तदर्थोप हितचिद्रुपसत्ताविषयकत्वे प्रयोजकत्व- - 1 अपरोक्षकालो-ग. --