पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायाम द्वैताद्धौ [ प्रथमः स्वविषयावरणनिवर्तकत्वमस्त्येव ; चिन्वेनैव प्रकाशप्रसक्तेः, न त्वनवच्छिन्नचिन्वेन; गौरवात्, 'एतावन्तं कालं मया न ज्ञातोऽ- यमिदानीं ज्ञात' इत्यनुभवाच्च । रूपादिहीनस्यापि तत्तदव- च्छिनचैतन्यस्य प्रत्यक्षादिविषयत्वमुक्तं प्राक् । प्रतिकर्मव्यव स्थामभ्युपगम्य चेदमनुमानम्, न तु दृष्टिसृष्टिपक्षे इति ध्येयम् । साध्ये चाद्यं विशेषणं प्रतियोग्यतिरिक्ता प्रागभावनिवृत्तिरिति मते प्रागभावेनार्थान्तरवारणाय । तदुदीच्यध्वंसादिकमादाय नार्थान्तरप्रसक्तिः, किंतु पूर्ववृत्त्यभावमादायेति वस्तुगतिमनुरुध्य प्राक्पदम् । अवैयर्थ्य च प्रतियोगिविशेषणत्वेनाखण्डाभाव- संपादकतया । एतेन यतो ज्ञानमज्ञानस्यैव निवर्तकमिति नियम- स्तस्मात्स्वनिवर्त्यपदेनैव प्रागभावव्युदासे किमाद्यविशेषणेनेति- निरस्तम्; प्रमात्वेन ज्ञाननिवर्त्यत्वमन्येषां नेत्यत्र तात्पर्यात् ।. न च स्वविषयावरणपदेनैव तद्वयुदासः; 'अस्ति प्रकाशत ' मित्यादि पूर्वोक्तं बोध्यम् | चिश्वेन --- चित्स्वरूपकत्वेन ' । गौरवादिति । अन्यथा सुखाद्यवच्छिन्नचितः प्रकाशाभावे सुखादेः परमतेऽपि साक्षि- भास्यता न स्यादित्यपि बोध्यम् । न ज्ञातः । अयं घटादिः अज्ञात- चिदवच्छेदकत्वाद्धटादावज्ञातत्वमिति भावः । प्रतियोग्यतिरिक्तेति । घटात्तत्प्रागभावो नष्ट इत्याद्यनुभवाद्यथा घटजन्यस्तत्प्रागभावनाश तथा ज्ञानादज्ञानं नष्टमित्यनुभवाज्ज्ञान जन्योऽज्ञाननाशः । प्रतियोग्येव प्राग- भावनाश इति मते तु ज्ञानमेवाज्ञाननिवृत्तिरिति तदनुसार्येव साध्यम्, न तु यथोक्तमिति भावः । अवैयर्ध्यमिति । संभवप्राचुर्येणेदम् । साध्ये व्यर्थवि- शेषणत्वस्या दोषत्वाद्दोषत्वेऽपि प्रागभावत्वस्याखण्डोपाधेः प्रकृते निवेशेना- भावत्वानिवेशात् शरीराजन्यत्वादाविव वैयर्थ्यशङ्काविरहादिति ध्येयम् । ' , 1 चित्स्वरूपत्वन-ग. 408 ·