पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] - इति व्यवहारविरोधित्वरूपस्यावरणत्वस्य भावाभावसाधारण- त्वात् । वृत्तिजनकादृष्टेनार्थान्तरवारणाय तु विशेषणमिदम् । न चावरणपदेनैव तद्वयुदासे स्वविषयेति व्यर्थम् ; यददृष्टं स्वविषयज्ञानजनकं विषयान्तरज्ञान प्रतिबन्धकतया तदावारकं तादृशादृष्टपूर्वकत्वेनार्थान्तरवारकत्वात् । न च – जडे अज्ञान- स्थानङ्गीकाराञ्चितश्चाज्ञानादिसाक्षितया भासमानत्वात्क्वावरण- मिति – वाच्यम् ; अज्ञानादिसाक्षितया चितः प्रकाशमानत्वेऽपि 'अस्ति प्रकाशत' इति व्यवहाराभावेन तदंशेऽज्ञानावरणस्या- वश्यकत्वात् । वक्ष्यते चैतत् । स्वनिवर्त्येति च विशेषणं वृत्ति- · विरोधित्वेति – प्रतिबन्धकत्वेत्यर्थः । चाक्षुषवृत्तिप्रतिबन्धद्वारा तमस इवाज्ञानस्य ज्ञानाभावस्य चोक्तव्यवहारानुत्पादप्रयोजकत्वेन तत्प्रति- "बन्धकत्वमिति भावः । इदं स्वविषयावरणेत्येवं रूपम् । अदृष्टस्य चरम- फलन | इयत्वेन स्वात्मकचरमफलजनकस्य स्वनिवर्त्यत्वात्तद्वारणायेदमिति भावः । वाचकत्वादिति । नच-तथापि स्वजनकं स्वसमानविषयकज्ञाना- न्तरप्रतिबन्धकादृष्टमादा यार्थान्तरमिति -- वाच्यम्; आलोकविषयाप्रसि- द्ध्या स्वविषयविषयकोक्त'व्यवहारनिवेशासंभवेन स्वप्रयुक्तोक्तव्यवहार प्रतिबन्धकत्वनिवेशात् ज्ञानान्तरप्रतिबन्धकस्य स्वप्रयुक्तोक्तव्यवहारा- प्रतिबन्धकत्वात् । तमम्त्वालो कजन्यस्वनाशाषीनचाक्षुषप्रतिबन्धद्वारा चाक्षुषजन्ये आलोकप्रयुक्तोक्तव्यवहारे प्रतिबन्धकमित्यालोके साध्या- वैकल्यम् । अज्ञानमपि स्वनाशद्वारा वृत्तिप्रयुक्तोक्तव्यवहारे साक्षादेव प्रतिबन्धकमिति विवेचयिष्यते । तदंशे - जडांशे, तदंशे व्यवहारा- भावेन तदंशावच्छेदेन चित्यावरणेऽस्या 'वश्यकत्वादित्यर्थः । अज्ञाना- वच्छेदकत्वेन साक्षिभास्यस्य तेन रूपेणैव 'अम्ति भाती ' ति व्यवहारो 1 स्वविषयकांक्त-ग. 2 चित्यावरणस्य -ग. → अज्ञान-अनुमानोपपत्तिः 409