पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अज्ञान - अनुमानोपपत्तिः 413 स्वप्रागभावातिरिक्तस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकमित्येकम् । न तु ज्ञानाभावस्य ; तद्विषयकाज्ञानत्वापेक्षया तद्विषयकज्ञानाभावत्वस्य गुरुत्वात्, अज्ञानत्वस्याखण्डस्यावरणशक्तिरूपस्यैव निवेशात् || नन्वज्ञानस्यापि प्रतिबन्धकत्वे मानाभावः; असत्त्वापादका- ज्ञानशून्यचिद्रूपम्यास्तित्वम्याज्ञानशून्यचिद्रूपस्य मानस्य च व्यवहारे उक्ता ज्ञानस्याज्ञान सामान्यस्य चानुपलब्धेर्हेतुत्वात् उक्तव्यवहारकाले उक्ताज्ञानसत्त्वे तदनुपलब्ध्यसंभवेन तत एवोक्तव्यवहारानुत्पादेना- ज्ञानप्रतिबन्धकत्वकल्पनावैयर्थ्यमिति चेन्न ; यत्र हि प्रतियोगिसत्त्वेऽ- प्यभावव्यवहारकाले प्रतियोग्यनुपलब्धिः, तंत्रव तस्या हेतुत्वम् ; अज्ञानस्य तु सत्त्वं सुषुप्तिसमाध्यादिकाले यद्यपि तद्वैशिष्ट्यानुपलब्धिः, तथापि तदभावव्यवहारकाले न सेति न तस्या उक्तव्यवहारहेतुत्वम् ; किंतु लाघवादज्ञानस्यैव प्रतिबन्धकत्वम् । न चाज्ञानाभावस्यानुपल- ब्धत्वत्यागे साक्षिमास्यत्व मेवास्तु अज्ञानसत्त्वे च तदभावासत्त्वान्नोक- व्यवहार इति – वाच्यम्; मन्मतेऽत्यन्ताभावस्य प्रतियोगिसत्त्वेऽपि तद्वति सत्त्वेनाज्ञानकालेऽपि तद्भावस्य साक्षिभास्यतापत्तेः अथैव शुक्तिरूप्याद्यभावव्यवहारेऽपि शुक्तिरूप्यादेः प्रतिबन्धकत्वमप्यास्ता- मिति चेदास्त एव । तस्मादुक्तास्तित्वभानयोरविद्यावृत्तिरूपे व्यवहारे उक्ता ज्ञान प्रतिबन्ध कत्वमावश्यकम् शब्दरूपमात्र व्यवहार तत्प्रतिबन्ध- कत्वे तु तयोः म्फुरणं दुर्वारम्; यद्यपि मन्मते प्रतिबन्धकाभावः कारणं नोच्यते, तत्कारण त्वेऽप्यज्ञानसत्त्वेऽपि तदभावसत्त्वेनोक्तव्यव- हारापत्तिश्च, तथापि प्रतिबन्धकस्य सर्वत्र कारणनिष्ठशक्ति विघटनद्वारा कार्यानुत्पादप्रयोजकत्वात्प्रकृते विषयविषया अस्तित्वादेः स्वाकारवृत्ति- कारणत्वात्तन्निष्ठशक्तिविघटकत्वमज्ञानम्यति ध्येयम् || | तत्त्वज्ञानस्यापि ग. " वययं चेति - ग. परिच्छेदः] 1 , ,