पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैत सिद्धौ [प्रथम: स्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकमित्यपरमिति न किंचिदसमज्जसम् | हेतौ च प्रकाशकत्वं प्रकाशकपदवाच्यत्वम्, अप्रकाशविरोधित्वं वा ज्ञानालोकयोः साधारणम् । यद्यपि प्रकाशकपदवाच्यत्वं नामकरणवशात् कस्मिंश्चित्पुरुषेऽप्यस्ति; 414 अपरमिति | साध्यद्वयेऽपि वस्त्वन्तरपदं प्रमामात्रस्य भ्रमपूर्व- कत्वसिद्धिमादायार्थान्तरस्य वारणाय स्वनिवर्त्यजन्य ' भ्रमान्यार्थकम् । यद्यपि द्वितीयसाध्ये स्वदेशगतत्वं न विषयगताज्ञातत्ववारणाय ; प्राग- भावस्येवात्यन्ताभावस्यापि ज्ञानीयस्य स्वावषयावरणपदेनैव वारणात् । तथापि जीवेशविभागपूर्वकत्वेन ब्रह्मप्रमायां सिद्धसाधनवारणाय तत् पक्षतावच्छेदकावच्छेदेन साध्य सिद्धेरुद्धेश्यत्वेऽपि प्रमामात्रमेकैकं जीवे- शविभागं निवर्तयति; तस्यैव क्लृप्तजातीयस्य स्वविषयावरणत्व भ प्यास्ताम्, नास्तां चावारकस्य तस्याभावत्वेन सौषुप्तनिर्विकल्पक- विषयत्वम् ; नावेदिषमित्यस्यानुभवत्व समंवादित्यर्थान्तरात् । नचैवं-- विषयगताज्ञातत्वस्य सिद्धान्ते आवरणत्वानङ्गीकारेऽपि क्लृप्तस्य तस्यै- वोक्तस्वविषयावरणत्वमास्तामिति परेण वक्तुं शक्यत्वात्तदादायार्थान्त रसंभवादेकमेव साध्यं कुतो न कृतमिति – वाच्यम्; परमते हि ज्ञानमात्र मस्तित्वं प्रत्यक्षं च भानं वाच्यम्; तथाच कारणाभावतयो- क्तव्यवहारस्यानुत्पादे विषयगताज्ञातत्वस्योक्तप्रयोजकत्वेऽपि कारणगत- शक्तिविघटनद्वारोक्तप्रयोजकत्वरूप प्रतिबन्धकत्वस्य निवेशेऽर्थान्तरा-- संभवः । जीवेश मेदादेस्तु मन्मतरीत्योक्तप्रतिबन्धकत्वमादायार्थान्तरं परेण वक्तुं शक्यते । एकसाध्यवादिनां प्राचां तूक्तद्वारनिवेशस्य विषयाज्ञातत्वचारणमेव प्रयोजनम्, तच्च स्वदेशगतत्वप्रागभावान्यत्वा- भ्यामेव सिध्यतीति स व्यर्थ इत्याशय इति ध्येयम् ॥ - 1 निवृत्त्यजन्य --ग. 2 वरकत्व - ग. -