परिच्छेदः] अज्ञान-अनुमानोपपत्तिः 419 नन्वनादित्वे सति भावत्वमभावविलक्षणत्वं वा न निव- र्त्यनिष्ठम् ; अनादिभावमात्रवृत्तिधर्मत्वात्, अनाद्यभावविलक्षण- त्वान्न ढोषः । परमते निर्विकल्पकाव्यवहितोत्तरत्वस्य पक्षे सत्वाद्यो- ग्येति । सविकल्पकधी सुखादेर्योग्यगुणत्वान्न तेन सिद्धसाधनम् । अत एव स्वप्रागभावपदं स्वप्रागभावार्थकं, स्वविषये संशयादिजनकं स्वविष- यावरणं, स्वसत्ताक्षणनियतध्वंसप्रतियोग्येव स्वनिवर्त्यम् । तथाच प्राग- भावोऽपि परमते विशेषादर्शनतया संशयादिजनकः । तथाच स्वप्रागभाव- स्वजनकादृष्टमनःसंयोगतमसां वारणाय क्रमेण स्वप्रागभावेत्यादि- चतुष्टयमिति आश्रमोक्तव्याख्यानान्तरपक्षेऽपि घटसंशयपूर्वकत्वमादाय ●न सिद्धसाधनम् ; धर्मिज्ञानविषया घटसंशयस्य घटसंशयान्तरजनक- त्वेन विषया वरणत्वेऽपि तत्पूर्वकचाक्षुषम्यापक्षत्वात् । न च- आमच साध्ये तमोनाशकत्वमुपाधिरिते--वाच्यम् ; आश्रमोक्तसाध्यस्य सविकल्पकाद्युत्तरचाक्षुषे उक्तसंशयोत्तरचाक्षुषे च सत्त्वेन साध्याव्यापकत्वात् । मूलोक्तसाध्यस्यापि सौषुप्तसुखाकारा- विद्यावृत्त्यादौ तत्सुखावरकस्वाप्रबुद्ध्यादिनिवर्त के सत्त्वेन तदव्यापक- त्वात् । नचोक्तवृत्त्यादेरस्ति भातीति व्यवहाराप्रयोजकत्वेन स्वविषये स्वप्रयुक्तोक्तव्यवहारप्रतिबन्ध कत्वरूपस्वविषयावरणत्वस्य स्वनिवर्त्यज- न्यभ्रमान्यत्वरूपवस्त्वन्तरत्वस्य च स्वामबुद्धयादावभाव इति–वाच्यम्; 'सुखमस्वाप्स 'मिति स्मृतिद्वारा सौषुप्तसुखमस्तीत्यादिव्यवहारे उक्त- वृत्त्यादेः प्रयोजकत्वात्, स्वामसुखादिबुद्धेर्भ्रमान्यत्वेनोक्तवस्त्वन्तरत्वात् अविद्यावृत्तित्वेन तस्याः स्वावच्छेदकान्यदेशावच्छिन्नत्वरूपं स्वदेश- गतत्वमप्युन्नेयम् । अनुकूलतर्केण साध्यव्याप्यतया गृहीतंहतोर- व्यापकत्वेनोक्तोपाधेः : साध्यव्यापकत्व ग्रहाच || स्वविषया-ग. 2 माध्यव्यापकतया -ग. 3 माध्याव्यापक-ग. 27*
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९४६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति