पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

422 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः श्रात्मगतत्वं प्राग्व्याख्यातम्, साध्ये तु प्रमापदमुपरञ्जकमेव । यदि त्वभावे प्रागिति विशेषणं नास्ति, तदा भावरूपाज्ञानस्यापि स्वाभावाभावत्वेन तदतिरिक्तानादिनिवर्तकत्वे बाधवारणाय । चैत्रासमवेतत्वं चैत्रान्यसमवेतत्वं च नोपाधिः; चैत्रसुखादौ प्रागभावनिवर्तकतया व्यभिचारेण साध्याव्यापकत्वात् । न च चैत्रप्रमा, चैत्रगतस्याभावातिरिक्तस्यानादेर्निवर्तिका न, प्रमा- त्वात्, मैत्रप्रमादिवदिति सत्प्रतिपक्षः; प्रतियोगिप्रसिद्धय- प्रसिद्धिभ्यां व्याहतेः । चैत्रगतप्रमाभावातिरिक्ताभावनिवर्तकत्वं - D मवत् । पुरुषान्तररूपोक्ताबाध्योपादानकत्वं परेणापि दृष्टान्ते स्वीक्रियते । जनकान्तानुपादाने तु साध्यवैकल्यमिति मावः । आत्मगतत्वमाध्या-. सिकं चैत्राद्यात्म' तादात्म्यम् । तथाच मनस इव तदुपहितात्मनोऽपि वृत्त्युपादानत्वात्तत्रापि तत्प्रागभाव इति भावः । अज्ञानस्यापीति । प्रतियोगिजनकाभावत्वरूपप्रागभावत्वेऽखण्डोपाधिरूपाभावत्वस्य लाघवेन प्रवेशात्प्राक्पदलभ्यजनकान्तत्यागे तावन्मात्रमज्ञानेऽपीति भावः । निवर्तकत्वे बाधवारणाय - निवर्तकत्वबाघस्य वारणाय | सुखादा- विति । स्वप्रा भावनिवर्तकत्वादिति शेषः । व्याहतेरिति । उक्तनि- वृत्तिहेतुत्वं क्वचिद्गृहीत्वैव तदभावोऽनुमेयः, अन्यथा विशेषणज्ञानाभावेन साध्यव्याप्तयग्रहात् स चोक्तहेतुत्वग्रहश्चैत्रप्रमायामेवेति बाघः । न चोकहेतुत्वज्ञाने चैत्रप्रमायां जातेऽपि भ्रमत्वं तत्र पश्चात्कल्प्यत इति वाच्यम्; एतदनुमानेनैव तत्र भ्रमत्वस्य कल्प्यतयाऽन्योन्याश्रयात् । न चासतः प्रतियोगिनो मन्मते ख्यातिसंभवात्तस्याश्च विकल्पत्वेना नु- मानबाघ॰कत्वमिति –वाच्यम्; मां प्रति हि त्वदीयोऽनुमानप्रयोगो मदीय प्रतियोगिज्ञानमपेक्षते, तच्च प्रमारूपं बाधकमेव, तस्य च भ्रमत्वमे- तदनुमानेनैव त्वया ज्ञापनीयमिति भावः । चैत्रगतप्रमाभावेति । १ , " त्मना-क. 2 विकल्पेना-ग. 3 नाबाध-क. ग. -