पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिछेदः] अज्ञान-श्रुत्युपपत्तिः 427 निवृत्तिस्तरणमात्रम्, 'मायामेतां तरन्ति ते' इति स्मृते- रिति – वाच्यम्; ज्ञान हेतुकतरणस्य निवृत्त्यतिरिक्तस्यासंभ- वेनोभयोनाशमात्रार्थत्वात् । न च – 'तम आसी' दित्यस्य सत्त्व प्रतिपादकस्य बाधकं विना पारमार्थिकसम्वपरत्वेन कथ- मावरणस्यानृतत्वमिति वाच्यम् ; 'नासदासीनो सदासी' दित्य- नेन पारमार्थिकत्व तुच्छत्वयोर्निषेधन व्यावहारिकसत्त्वपरत्वात् । न चानेन माया प्रतिपाद्यते; मायाशब्दार्थश्च नाज्ञानम्, मायिनो ब्रह्मणोऽज्ञानित्वे सर्वज्ञत्वनिरवद्यत्वादिश्रुतिविरोधा- दिति – वाच्यम्; उपाधेः प्रतिबिम्बपक्षपातित्वेनेश्वरासार्वज्ञथा- द्यापादनायोगात्, सार्वज्ञ्याद्यैश्वर्यस्य मायानिबन्धनत्वाच्च । न च - 'मय ज्ञान' इति धात्वर्थानुसारान्माया कथमज्ञानमिति - वाच्यम्; 'एवमेवैषा माया स्वाव्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वा 'जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवतीति श्रुत्या मायात्रिद्ययोरैक्यप्रतिपादनान्माया अज्ञानमेव । 'घट चेष्टाया' मिति धातुजस्यापि घटशब्दस्य पदात् 'तरति शोकमात्मवि' दित्यादिश्रुतिः, 'ज्ञानेन तु तद्ज्ञानं येषां नाशितमि त्यादिस्मृतिश्च मानम् । नासदासीदिति । उक्तवाक्य- पूर्ववर्तिनेत्यादिः । प्रतिबिम्बपक्षपातित्वेन प्रतिबिम्बं प्रत्येवावर- कत्वादिना । ऐक्यप्रतिपादनादिति । शुद्धसत्त्वमलिनसत्वाभ्या- मुपाधिभ्यां मायाविद्ययोर्भेदेन मायागतः प्रतिबिम्बरूप आभास इंश:, अविद्यागतः स जीव इति जीवेशावित्यादिनोक्ता, 'माया चाविद्या च स्वयमेवे 'त्यनेनैकव्यक्तिरूपत्वप्रतिपादनादित्यर्थः । वस्तु निर्वाच्यम् । विचित्रकार्यपरिणामित्वेन मायापदम्यावरकत्वेना विद्यापदम्य प्रयोगः मायायां बिम्बमीशः प्रतिबिम्बं जीवः । तथाचोक्तोपाधिकृतभेदम्याप्य-