पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

429 स्यैवानिर्वचनीयविचित्रशक्तियोगात्र विचित्रशक्तिमति माया- शब्दप्रयोगानुपपत्तिः; क्वचिन्मणिमन्त्रादौ तत्प्रयोगस्तूप- चारात् । न च – शुक्तिरूप्यादौ मायाशब्दाप्रयोगान मृषार्थोऽ.. यमिति – वाच्यम्; वज्रादौ पृथिवीत्वादिव्यवहाराभावेऽपि 'सर्षपरसे निरूढगौणत्वेन मूरिप्रयोगवत् । वस्तुतोऽन्यथाभावेन ज्ञाय मानक्रियाया एव छद्मत्वेन छद्मापि मायापदरूढ्यर्थमिथ्याभूतमेवेति ध्येयम् । विचित्रशक्तीति । विचित्रोपादानत्वेत्यर्थः, अनिर्वचनीय- विचित्रस्य निमित्तमात्रे मायाविपुरुषादौ तत्प्रयोगाभावात् । क्वचिदिति । मन्त्रविशेषादिरूप मायाश्रयत्वेन पुरुषे मायाविपदप्रयोगादित्यादिः । उप- • चारात् मिथ्याभूतार्थनिमित्तत्वात् । व्यवहाराभावेऽपीति । व्यञ्ज- काभावदशायामिति शेषः । व्यञ्जकदशायां तु वज्रादौ पृथिवीत्वादेरिव • रूप्यादावपि मायात्वं व्यवयित एव । अत एव - -- परिच्छेदः] अज्ञान-श्रुत्युपपत्तिः 6 यत्तु दृष्टिपथं प्राप्तं तन्मायैव सुतुच्छकम्' ॥ 6 इति सायवाक्येन दृश्यमात्रे मायात्वं व्यवहृतम् । किंच कष्टं कर्मे' त्यनुभवेन क्रियामात्रस्य दुःखजनकत्वेऽपि ' इदानीं मे दुःख' मिति सर्वदा न व्यवहारः; प्रकृष्टदुःखकाल एव तद्व्यवहारात्, तथा चमत्कारविशेषाघायकत्वेन प्रकृष्टमायायामेव मायापदप्रयोगः । अतएव - ‘माया ह्येषा मया सृष्टा नैवं मां द्रष्टुमर्हसि ' || इति नारदं प्रति भगवद्वाक्ये दृश्यमानस्य विश्वरूपस्य प्रतिपन्नो- पाधौ निषेधत्वे मायात्वं हेतूकृतम् । यदचरस्तन्वा वावृधानो बला- नीन्द्रप्रब्रुवाणो जनेषु | मायेत्साते यानि युद्धान्याहुनांच शत्रु ननु पुरा विवित्से' इत्यस्यामृचि वेद्यशत्रोनिषेध्यत्वे मायात्वं हेतूकृतम् । तथा । 1 सार्षप-क. •