पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8 सव्याख्यायामद्वेतसिद्धी [ प्रथमः - अज्ञानम- प्रमाणैर सद्यावृत्तिमात्रं बोध्यत इति – वाच्यम्; गृह्णतां तत्रासद्वयावृत्तिबोधेऽप्यसामर्थ्यादिति - चेन्न; प्रमाणोप- नीतासद्वथावृत्तिविशिष्टाज्ञानं हि साक्षिणा गृह्यते । तथाचा- सद्यावृत्त्युपनयने प्रमाणानां चरितार्थत्वान्न काप्यनुपपत्तिः ॥ इत्यद्वैत सिद्धावविद्याप्रतीत्युपपत्तिः ॥ अथाविद्यायाश्चिन्मात्राश्रयत्वोपपत्तिः अविद्याया आश्रयस्तु शुद्धं ब्रह्मैव । तदुक्तम्- 'आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः '॥ इति ॥ दर्पणस्य मुखमात्रसंबन्धेऽपि प्रतिमुखे मालिन्यवत् प्रति- बिम्बे जीवे संसारः, न बिम्बे ब्रह्मणि ; उपाधेः प्रतिबिम्बपक्ष- पातित्वात् । ननु – कथं चैतन्यमज्ञानाश्रयः ? तस्य प्रकाश- इत्याशयेनाह ~~ तथाचेति । व्यावृत्त्युपनयने : वृत्तिविशिष्टाज्ञान- प्रमापणे । चरितार्थत्वादज्ञाननिवृत्तिरूपफलवत्त्वात् । -- तथाच विशिष्टाकारज्ञाने विशेष्यस्याविशिष्टरूपेण माननियमस्वीकारेडाप प्रकृते विशिष्टरूपेण प्रमेयता, न त्वविशिष्टरूपेण ; तत्र प्रमाविषयत्वेऽप्युक्त- फलाभावादिति, तत्र प्रमाणं नाज्ञातज्ञापकमिति भावः ॥ , तर्कैरित्यादि-अविद्याबुद्ध्युपपादनम् । इत्यद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायाम विद्या प्रतीत्युपपत्तिः ॥ अथाविद्यायाचिन्मात्राश्रयत्वोपपत्तिः प्रतिबिम्बपक्षपातित्वात् - प्रतिबिम्ब एव कार्यविशेषजनक