पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] स्वरूपत्वात्, तयोश्च तमःप्रकाशवविरुद्धस्वभावत्वादिति- चेन; अज्ञानविरोधि ज्ञानं हि न चैतन्यमात्रम् ; किंतु वृत्ति- प्रतिबिम्बितम् ; तच्च नाविद्याश्रयः, यच्चाविद्याश्रयः, तच्च नाज्ञान- विरोधि | न च तर्हि शुद्धचितोऽज्ञानविरोधित्वाभावे घटादिव- दप्रकाशत्वापत्तिः; वृत्त्यवच्छेदेन तस्या एवाज्ञानविरोधित्वात्, स्वतस्तृणतूलादिभासकस्य सौरालोकस्य सूर्यकान्तावच्छेदेन स्वभास्य तृणतूलादिदाहकत्ववत्स्वतोऽविद्यातत्कार्यभासकस्य चै- तन्यस्य वृत्यवच्छेदेन तद्दाहकत्वात् । नन्वहमज्ञ इति धर्मिग्राहकेण साक्षिणा अहङ्काराश्रितत्वेनाज्ञानस्य ग्रहणाद्वाधः, न च - स्थौल्या- श्रयदे क्याध्यासादहं स्थूल इतिवदज्ञानाश्रय चिंदैक्याध्यासात् अविद्यायाचिम्मात्राश्रयत्वोपपत्तिः , त्वात् । यथा मलिनदर्पणो मालिन्यं स्वसंसर्ग च प्रतिबिम्ब एव जनयति, न तु बिम्बे ; तथैवानुभवात् तथाऽविद्यापि जीवं प्रत्येवा- वरकत्वेन श्रुत्यनुभवादिसिद्धत्वादावरणप्रयुक्त व्यवहारं मन आदिकार्य जीवे जनयति, न त्वशि इति भावः । अज्ञानं प्रति ज्ञाने विरोधित्वं नाशकत्वम्, तच्च न चिन्मात्रे; तथाननुभवात्, किंतु प्रमाण- वृत्तिप्रतिबिम्बितचितीति नोक्तदोष इत्याह - नाज्ञानेति । स्वतोऽ- विद्यात कार्यभासकस्येति । यद्वत्यवच्छिन्नस्य यदविद्यातत्कार्यनाश- कत्वं तां वृत्तिं विनैव तदविद्यातत्कार्यभासकस्येत्यर्थः । वृत्यवच्छेदेन तदधिष्ठानगोचरवृत्त्यवच्छेदेन । स्थौल्येति । अहङ्कारावच्छिन्नचिती- त्यादिः । चिंदैक्याध्यासात् चित्यहङ्कारस्यैक्येनाध्यासात् । यद्य प्यहक्कारोपादानीभूतं मूलाज्ञानं नावच्छिन्नाश्रयताकम् ; अत इदमंशा- वच्छिन्नाश्रयताकतूलाज्ञानपरिणाम रूप्यादेरिदं रूप्यमिति भ्रमरीत्या ' नाहमज्ञ ' इति भ्रमः ; तथापि घटादेर्मृदादिपरिणामत्वात् मृदवाच्छन्न- . चितीवाहङ्कारादेरज्ञानपरिणामत्वादज्ञानावच्छिन्नचित्यैक्याध्यासादुक्तभ्रम 9 , -