पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] द्वितीय मिथ्यात्वनिरूपणम् 79 सत्त्वव्यापकाप्रातिभासिकाभावस्य व्यावहारिकनिष्ठप्रतियोगित्वं उक्त- सत्त्वव्यापकाभावस्य प्रातिभासिकनिष्ठप्रतियोगित्वं चेत्यन्यतरवत्त्वम् । व्यावहारिकनिष्ठत्वं च प्रातिभासिकान्यविनाशिनिष्ठत्वं ब्रह्मावृत्तित्वं वा ग्राह्यम् । आद्यस्यान्त्यस्य च प्रतियोगित्वस्योक्तया 'व्यावहा- रिके प्रातिभासिके च साध्यलाभः । व्यावहारिको यः पूर्णानन्दा- भावः तत्प्रतियोगिब्रह्मण्यतिव्याप्तेः व्यावहारिकनिष्ठेति विशेषणम् । विनाशिनः स्वस्य अप्रातिभासिकाभावत्वं च स्वान्यूनसत्ताकत्वं, स्वामस्य स्वाप्नाभावेन मिथ्यात्वव्यवहारस्तु तदानीं तस्याप्रातिभा- सिकत्वज्ञानात् । प्रपञ्चः प्रातिभासिकः सत्य इति वादिनं प्रति तु विनाशिनः स्वस्याभावत्वमेव तत् । सत्त्वं तु अबाध्यत्वव्यापक विषयताककिश्चिद्धाविषयत्वं तद्विषयताव्यक्तित्वेन निवेश्यम् । तेन गुरोरनवच्छेदकत्वेऽपि न क्षतिः । गगनादरेवृत्तित्ववादिनं प्रत्यपि साध्यसिद्धये स्वाधिकरणसन्निष्ठत्वं लध्वपि नोक्तम् । विषयत्वव्याप- कत्वोक्तौ सर्व बाध्यमिति मते अत्यन्तासत्त्व मादा यार्थान्तरम् । अतस्तद्विषयत्वमुक्तम् । तन्मते च तदप्रसिद्धम् । विज्ञानमात्रसत्य- त्वमते विज्ञानान्यस्यालीकत्वेन अर्थान्तरात् । उक्तविशेष्यवृत्तित्वं सत्त्वावशेषणम् । तथा अस्मदीयपूर्वोत्तरीत्या ब्रह्मणोऽभावप्रतियोगि त्वास्वीकारे तु पूर्वलक्षणे व्यावहारिकनिष्ठत्वादिकं उत्तरलक्षणे विना- शित्वं च न देयम् । तन्मते विज्ञाने विज्ञानान्यप्रकारकबुद्ध्य- विशेष्यत्वात् नार्थान्तरम् । स्वावच्छिन्नप्रकारकधीविशेष्यनिष्ठसत्त्वव्या- पकात्यन्ताभावप्रतियोगितात्वपर्याप्तयधिकरणधर्मवत्त्वं लक्षणं बोध्यम् । तेन संयोगेन रूपाद्यभावमादाय रूपादौ न सिद्धसाघनमिति दिक् || वृत्ति अप्रातिभासिको यः स्वसमानाधिकरणात्यन्ताभावः तस्य ब्रह्मा- यत्प्रतियोगित्वं, यच्च स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं 1 त्वस्योक्तौ. 2 सत्यत्व.